SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३० श्री सङ्घपट्टकः समवसरणे श्रमणानां कथं केन प्रकारेणाऽवस्थानं भणितमिति ॥ अत्रैव परःस्वपक्षसिद्धये प्रसङ्गमाह ॥ जइ समणाण न कप्पइ एवं एगाणिया जिणवरिंदा ॥ कप्पइय ठाइओ जे सिद्धाययणे तयविरुद्धं ॥ अत्र हि यथा जिनानामेकाकित्वप्रसङ्गेनाऽनाहार्यप्रातिहार्यप्रभृतिसमवसरणभुवि यतीनामवस्थानं कल्पते एवं चैत्यायतनेपि न विरुध्यते ॥ इत्यादौ पूर्वपक्षे परेण कृते आचार्येण प्रसङ्गाच्चतुर्विधेपि चैत्ये यतीनां कल्पा-कल्पयोः समाधिरभिहितः, यथा, साहम्मियाण अढे चउव्विहे लिङ्गओ जह कुडंबी ॥ मंगलसासयभत्तीए जं कयं तत्थ आएसो॥ अत्र हि प्रथमाधै लिङ्गवचनभेदेन चतुर्विधस्य सार्मिकस्य मध्यात् कुटुम्बिनो वारत्तकादेराय यत्कृतं चैत्यादि तत्र यतीनामवस्थानादिकं कल्पत इत्युक्तम् ॥ द्वितीयार्धे तु मंगलादिचैत्यमध्याद् भक्तिकृतेऽयमादेशोव्यवस्थारूपः प्रतिपादितस्तमाह ॥ जइवि न आहाकम्मं, भत्तिकयं तहवि वज्जियं तेहिं ॥ भत्ती खलु होइ कया जिणाण लोएवि दिटुंतो ॥ बंधित्ताकासवओ, वयणं अट्ठगुणाइ पोत्तीए पत्थिवमुवासए ॥ खलु, वित्ति निमित्तं भयाचेव ॥ दुब्भिगंधि मलस्स वि तणुरप्पेस अह्राणिया ॥ उभओ वाउवहो चेव, तेण ठंति न चेइए ॥ अत्र हि देवनिमित्तनिर्मितत्वेन जिनभवनस्याधाकर्मत्वाभावेपि यतीनां तदन्तर्वासे भगवति शरीरदौर्गंध्यादिहेतुकाशातनादोषप्रसङ्गाद् भक्तिनिमित्तं तन्निवासो मुनिनां निवारितः ॥ अत एवातिपरिहारख्यापनाय चैत्यवन्दनादिगतानां तत्रावस्थानकालपरिमाणभणनेन प्रकारान्तरेणापि तन्निवासप्रतिषेध स्तत्रैवागमेऽभ्यधायि ॥ यथा, तिन्नि वा कड्डई जाव, थुईओ तिसिलोइया ॥ ताव तत्थ अणुनायं कारणेण परेणवि ।। अत एव तद्दर्शने तदवग्रहभूमिप्रदेशे वा संभ्रम एव विधातव्यो न त्ववज्ञा ॥ यदुक्तम् ॥ इतो ओसरणाइसु, दंसणमित्ते गयाइ ओयरणं ॥ सुच्चइ चेइयसिहराइएसु सुस्सावगाणंपि ॥ गुरुदेवग्गह भूमीइ जुत्तओ चेव होइ परिभोगो ॥ इट्ठफल साहगो सइ अणिट्ठफलसाहगो इहरा ॥ इतरथाशातनाप्रसङ्गात् तस्याश्चानन्तसंसारकारणत्वात् ॥ यदुक्तम् ॥ आसायण मिच्छत्तं, आसायणवज्झाणाइ सम्मत्तं ॥ आसायणानिमित्तं, कुव्वइ दीहं च संसारं ॥ तदन्तर्वासे तु यतीनां सततमशनपानशयानादिक्रियासंभवादवश्यंभाविनी भगवदाशातना ॥ अत एव पूजार्थं जिनसदनान्तर्वर्तिनां तद्भक्तिमतां पूर्वाचायैरशनादिक्रिया निवारिता ॥ यथोक्तम् ॥ तंबोलपाणभोयणुवाणहथीभोगसयणनिट्ठवणे ॥ मुत्तुच्चारं जूअं वज्जइ, जिणमंदिरस्संतो ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy