________________
विभाग-१, बृहद्वृत्तिः
२९
निष्पन्नत्वेन च जिनगृहवद्वस्तुतो देवद्रव्यत्वात् ॥ अपवादस्य च कादाचित्कत्वेन नित्यं भवतां तत्र वासे तस्याप्यनुपपत्तेः ॥
एवं मठवासं सदोषं मन्वाना मुनयः कथमिव मठपतितामङ्गीकुर्वीरन् ॥ तथा भगवदाशातनातोपि विवेकिनस्त्रस्यन्ति ॥
अथ केयं भगवत्प्रतिकृतीनामाशातना ? किं गुरुणामिवासन्नगमनावस्थानादिना मुखनाशाकुहरनिःसरदविरलोच्छासनिःश्वासादिभिस्तद्देहोपतापाद्यापादनलक्षणा उत तासु भगवदध्यारोपेण पूज्यबहुमानप्रकर्षसूचकसंभ्रमातिशयरूपा ॥
न तावदाद्यः, भगवतां परमपदप्राप्तत्वेन तत्प्रतिकृतीनां तदसम्बन्धेन तदसंभवात् ॥ नापि द्वितीयः, गर्भागाराद्यवग्रहं विहाय तिष्ठतां तदसंभवात् ॥ यथोक्तम् ॥
सोलालंदबलाणे रहघडियानीडमढविवित्तेसु । ति मुणी जयणा तित्थयरावग्गहं मुत्तुं ॥
अन्यथा जिनप्रतिमाध्यासिते गृहे वसतां श्रावकाणां भगवदाशातनाभयेन बहिर - वस्थानप्रसङ्गात् ॥ किञ्च न संभवत्येव सर्वथा भगवत्यभक्तिः, न हि पितुर्भवने वसतां तत्तनयनां पितर्यभक्तिर्नाम, प्रत्युत पितरं विहाय युतकसदने वसतां तेषां लोके महानयशः पटहः प्रसरति ॥
भगवन्तस्तु सम्यग्ज्ञानदर्शनचारित्रदानेन संसारकांतारनिस्तारकत्वात् यतीनांपितृभ्योप्यभ्यधिकाः ॥ अतस्तेने दिष्टतया तेषामवश्यमादरणीया अत एव भगवतामपूर्वसमवसरणादौ तत्र सन्निकृष्टानां श्रमणानामनागमने प्रायश्चितमागमे प्रत्यपादि ॥
यदाह ॥ जत्थ अपुव्वोसरणं अदिट्ठपुव्वं व जेण समणेण || बारसहि जोयणेहिं सो एइ अणागमे लहुया तदेवं जिनभवनांतर्वासेपि यतीनां न भगवदाशातना प्रसजतीति ॥
अत्रोच्यते ॥ यत्तावदभिहितं भगवतां परमपदप्राप्तत्वेन प्रथमविकल्पोक्ताशातनाऽसंभव इति तदयुक्तम् ॥ भगवतां मुक्तत्वेपितत्प्रतिकृतीनां तद्गुणाध्यारोपेण तत्त्वेनाध्यवसानाद् भक्तिवदाशातनाया अपि संभवात् ॥ अन्यथा मुक्तत्वाविशेषे भक्तेरप्यनुपपत्तेः ॥
तत्प्रतिमाभक्त्यभक्तिमतामुपकारापकारयोर्बहुधागमे श्रवणाच्च ॥ अत एवासन्नावस्थानादिना भगवत्याशातना सिद्धेस्तद्धेतुकश्चैत्यवासप्रतिषेधः पूर्वपक्षपुरःसरं सिद्धान्ते निरचायि ॥ यथाह ।। जा तित्थयराण कया वंदणमावरिसणाइपाहुडिया ॥ भत्तीइ सुरवरेहिं समणाण हिं कहिं भणियं ॥
अस्यार्थः, यद्याशातनादोषाच्चैत्यावस्थानं यतीनां न सङ्गच्छते तदा तीर्थंकृतां सुरैर्यावर्षणादिका गन्धोदकसेचनसमवसरणरचनप्रमुखाप्राभृतिकापूजोपचाररूपा कृता, तत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org