SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २८ साक्षाद् भुञ्जानस्य वा स्यादितिचेत् न ॥ गृहिणा स्ववनिर्मापितत्वेपि देवसदनस्य देवत्राकृतत्वेन देवद्रव्यत्वात्तथाच तत्र वसतः साक्षात्तद्धनमनुपभुञ्जानस्यापि मुने र्देवद्रव्योपभोगोपपत्तेः ॥ साक्षाद्देवद्रव्यनिष्पन्ने तु का वार्त्ता ॥ किञ्च नित्यं तत्र वासेन निःस्पृहस्यापि तच्चिन्तादौ व्याप्रियमाणस्य साक्षात्तद्ग्रन्थोपयोगस्यापि संभवात् राजनियोगादिषु प्रथमं निरीहाणामपि पश्चात्तथाभावोपलब्धेः ॥ अथास्तां तत्र वसतो मुनेर्देवद्रव्योपभोगस्तथापि तत्र को दोष इतिचेदुच्यते तद्भोगस्यानन्तजन्मसुदारुणविपाकत्वेन भगवताभिधानात् ॥ यदाह ॥ देवस्स परिभोगो अणंतजम्मेसु दारुणविवागो । जं देवभोगभूमिसु वुड्डी नहु वड्डइ चरिते ॥ श्री अत्र हि देवभूमिं भुञ्जानस्य यतेश्चारित्राभावेन दारुणो विपाकः प्रतिपादितः ॥ तथा सङ्क्रासादिश्रावकाणां चैत्यद्रव्योपभोगिनामत्यन्तदारुणविपाकस्यागमेपि बहुधा श्रवणात् ॥ सङ्घपट्टकः तथा जिणपवयणवुढिकरं पभावगं नाणदंसणगुणाणं, भक्खन्तो जिणदव्वं अनन्त - संसारिओ होइ ॥ तथा चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ धम्मं च सो न याण अहवा बद्धाउओ नए ॥ इत्याद्यपरापरागमवचनानि । चिन्तयन्तो महामुनयो देवद्रव्योपभोगेन भवकूप- पातात्कथं न त्रस्यन्ति तथा माठपत्यादपि महामुनयो बिभ्यति ॥ यतः मठो हि देवद्रव्यनिष्पन्नो वा स्यात् गृहिणा यत्यर्थं स्वद्रव्येण कारितो वा ॥ तत्राद्यपक्षे तन्निवासो यतीना - मुक्तप्रकारेण देवद्रव्योपभोगप्रसङ्गादेवानुचितः ॥ Jain Education International द्वितीये त्वकल्पनीयत्वात्तन्निवासानुपपत्तेः ॥ तस्य केवलसाधुनिमित्तं निष्पन्नत्वेन महासावद्यशय्यारूपत्वात् ॥ यथोक्तम् ॥ कालाइक्कं तु वट्ठाणा अभिकंठाचेव अणभिकंताय ॥ वज्जाय महावज्जा सावज्जा महप्पकिरियाय ॥ समणट्ठा सावज्जा य साहूणमिति ॥ अकल्पनीयवसत्यादेर्यतीनां ग्रहणनिषेधात् ॥ यदाह ॥ पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य । अकप्पियं न गिहिज्जा, पडिगाहिज्ज कप्पियं ॥ अथापवादेन महासावद्यशय्यावासस्याप्यागमेऽभिधानात्तद्रूपमठवासे यतीनां को दोष इति चेन्न ॥ गृहिणा स्वद्रव्येणापि यतिविधास्यमानदेवचिन्ताभिसन्धिना तस्य निर्मापितत्वेन देवभुवि For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy