________________
२७
विभाग-१, बृहद्वृत्तिः आह॥ सती शोभनाऽकृत्रिमा भक्तिः शारीरसम्भ्रमातिशयस्तस्य योग्यमुचितं तस्मिन् ॥ भक्तिरेव यतस्तत्र कर्तुं युज्यत इति भक्तियोग्यतामेव विशेषतो विशेषणद्वारेण दर्शयति ॥
गायन्तः कलमन्द्रादिस्वरेण ग्रामरागैर्भगवद्गुणानेवोत्कीर्तयन्तो गन्धर्वाः प्रधानगायना यत्र तत्तथा ॥ नृत्यन्ती नाट्यशास्त्रोक्तक्रमेण करचरणाद्यङ्गविक्षेपं कुर्वती पणरमणी वारस्त्री नर्तकी यत्र तत्तथा ॥ __रणन्तो वैणविकैर्मुखमरुताभिघातान्मधुरं ध्वनन्तो वेणवो वंशा यत्र तत्तथा गुञ्जन्तोमार्दङ्गिकैःपाणिभ्यां ताडनाद् गम्भीरं स्वनन्तःमृदङ्गा मुरजा यत्र तत्तथा ॥
प्रेङ्कुन्त्यो लम्बमानत्वान्मन्दपवनेन कम्पमानादेव सपर्यार्थं विरचिताः पुष्पस्रजः प्रसूनमाला यत्र तत्तथा ॥ पुष्पग्रहणेन च पुष्फामिसथुइभेया इत्यादिना साहचर्याभिधानात्पक्वान्नादिबलिस्तुतिलक्षणपूजाद्वयस्यापीह ग्रहणं द्रष्टव्यम् ॥
उद्यन् भगवत्प्रतिमाविलेपनार्थविमर्दनसमुच्छलदामोदद्वारेण प्रसरन्मृगमदः कस्तूरिका यत्र तत्तथा ॥ लसन्तः पट्टांशुकमयत्वात् मुक्ताफलादिविच्छित्तियुक्तत्वाच्च दीप्यमाना उल्लेचा वितानानि यत्र तत्तथा ॥ चञ्चन्तो महाधनवसनविभूषणाङ्गरागप्रसाधितशरीरत्वाद् भ्राजिष्णवो जनौघाः श्रावकसमुदाया यत्र तत्तथा ॥ ततश्च गायद् गंधर्वं च तत् नृत्यत्पणयरमणि चेत्यादि कर्मधारयः तस्मिन् ॥ एतानि हि भगवद्गुणगानादीनि प्रवराणि जिनगृहे भक्तिहेतुकानि भव्यानां शुभभावोल्लासहेतुत्वाच्छ्रद्वालुभिर्विधीयन्ते ॥
यदुक्तम् ॥ पवरेहिं साहणेहिं पायंभावोवि जायए पवरो ॥ न य अन्नो उवओगो एएसि सयाण लट्ठयरो॥ ' अथैवंविधभक्तियोग्यजिनगृहे किमिति साधवो न निवसन्ति अत आह॥त्रसन्तो बिभ्यन्तःकुतो देवद्रव्यस्य जिनवित्तस्य उपभोगःसततं तत्र शयनासनाभोजनादिकरणेनोपभोगः तथा ध्रुवा शाश्वती यावज्जीवं अथवा ध्रुवं निश्चितं मठो जिनगृहजगतीसम्बद्धो यतिनिमित्तनिष्पन्नउपाश्रयस्तस्य पतिता आधिपत्यं जिनगृहलेखकोदग्राह्यणिकाकर्मांतरादिसकलचिन्ताकारित्वेनाधिकारित्वमितियावत् ॥ चैत्यवासिनो हि निरन्तरसञ्चरिष्णुजनसङ्कलतया तत्राव्यग्रं स्थातुमशक्नुवन्तस्तदनुषक्तभुवि मठं विधाप्य सर्वां तच्चिन्तां विदधतीति भवति माठपत्यम् ॥
तथा भगवत्प्रतिकतिप्रत्यासत्तौ भोजनशयनासननिष्टीवनाद्यविधिकरणेन ज्ञानाद्यायस्य शातना भ्रंशनम् ॥ भगवत्संनिधौ हि भोजनादि कुर्वाणो यतिर्ज्ञानादिलाभाद् भ्रश्यतीति भवत्याशातनाऽवज्ञा ॥ ततश्च देवद्रव्योपभोगश्चेत्यादिद्वन्द्व ताभ्यः ॥
अथ गृहिणा भगवन्निमित्तं स्वद्रव्येण निर्मापिते देवगृहे वसतस्तद्रव्यं च कनकादिकमनुपभुञ्जानस्य यतेः कथं देवद्रव्योपभोगः, जिनद्रव्यनिष्पन्ने हि तत्र निवसत स्तद् द्रव्यं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org