________________
श्री सङ्घपट्टकः युगादिदेवन प्रतिषेधात् ॥ ___राजपिण्डत्वात्प्रतिषेध इति चेन्न ॥ आधाकर्मत्वेनैव तत्प्रतिषेधस्यागमेश्रवणात् ॥ अतः प्रथमपश्चादुपनीतयोरशुद्धशुद्धपिण्डयो राजपिण्डत्वेन समानत्वेपि यद्भगवानऽशुद्धपिण्डमाधाकर्मत्वेनैव न्यषेधत् तेनावगच्छाम आधाकर्मैव सर्वदोषेभ्यो महीयः अन्यथाऽशुद्धवद् शुद्धमपिराजपिण्डत्वेनैव न्यषेधयत् ॥
तथातिसारापसरणाय भगवन्निमित्तनिर्मितमोदकं दातुं समुद्यताया रेवत्या भगवता निषेधनाच्च ॥ तस्माच्छुद्धदानेनैव श्राद्धानामपि पुण्योत्पादः ॥ आधाकर्मग्रहणेन च यते: स्वार्थपरिहाण्या कीदृशः परार्थः ॥ स्ववञ्चनेन वस्तुतः परोपकारानुपपत्तेः ॥ ___ यथोक्तम् ॥ जइआणेणं चत्तंअप्पणयं नाणदंसणचरित्तं ॥ तइया तस्स परेसिं, अणुकंपा नत्थि जीवेसु॥
तथान्यत्राप्युक्तम् ॥ परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् ॥ आत्मानं यो तिसंत्ते, सोऽन्यस्मै स्यात् कथं हितः ॥
एवं च संयमशरीरोपष्टम्भकत्वादिति हेतुप्रयोगोप्यनुपपन्नो विशेषणासिद्धत्वात् ॥ उक्तन्यायेन सतताधाकर्मभोजिनो यतेः शरीरस्य संयमशरीरत्वानुपपत्तेः ॥ तथा श्राद्धश्रद्धावृद्धिहेतुत्वादिति द्वितीयहेतुप्रयोगोप्यसमीचीनः आधाकर्मभोजनोपादानस्यागमविरुद्धत्वेन हेतो बर्बाधितविषयत्वात् ॥ ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् क्षीरत्वादित्यादिवत् ॥'
तथापि प्रतिवाद्युपन्यस्तहेतुदूषणमात्रेण न स्वपक्षसिद्धिरिति स्वपक्षेपिसाधनमुच्यते ॥ यतीनामाधाकर्मभोजनमनुपादेयं षटजीवनिकायोपमर्दनिष्पन्नत्वात् तथाविधवसत्यादिवत् ॥तथा यतीनामाधाकर्मभोजनमभोज्यं धर्मलोकविरुद्धत्वाद्गोमांसवदिति ॥एवं चोपपन्नमेतत्सङ्घादिभक्तं यतिना न भोक्तव्यमितिवृत्तार्थः ॥६॥ इदानी देवद्रव्योपभोगादिदूषणप्रदर्शनद्वारेण जिनगृहवासद्वारं निराचिकीर्षयाह ॥
॥ मूलकाव्यम् ॥ गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणगुञ्जन्मृदङ्गप्रेडत्पुष्पस्त्रगुद्यन्मृगमदलसदुल्लोचचञ्चज्जनौघे । देवद्रव्योपभोगध्रुवमठपतिताशातनाभ्यस्त्रसन्तः
सन्तःसद्भक्तियोग्ये न खलु जिनगृहेऽर्हन्मतज्ञा वसन्ति ॥७॥ टीका:-खलु निश्चये जिनगृहेऽर्हद्भवनेऽर्हन्मतज्ञा भगवदागमनिष्णाता यतयो नैव वसन्ति सततमवतिष्ठन्ते ॥ तदागमे तन्निवासस्यात्यन्तं निवारणात् ॥ संतो विवेकिनः ॥ कुत इत्यत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org