________________
विभाग-१, बृहद्वृत्तिः तदवस्यामो नूनं सङ्घभक्तग्रहोऽधुनातनयतीनामतिगृध्रुतानिबन्धनो न धर्मशरीरधारणहेतुक इति नाद्यः पक्षः॥
अथ द्वितीयः तदेवमेतत् ग्लानाद्यवस्थायां दुर्भिक्षादिषु शुद्धेनानिर्वाहे चाधाकर्मग्रहणस्याप्यागमे प्रतिपादनात् ॥ शुद्धेन निर्वाहे तु तस्य कादाचित्कतयापि ग्रहणे दातगृहीत्रोरहितत्वेनाभिधानात् ॥ यदाह ॥ संथरणंमि अशुद्धं, दुन्हवि गिण्हन्तदिन्तयाणहियं ॥ आउरदिट्ठन्तेणं, तंचेव हियं असंथरणे ॥"
यदप्युक्त "मात्मा च यतिना यथाकथञ्चन रक्षणीय" इत्यादि ॥ तदप्यनालोचिताभिधानात् ॥ नह्येतत्सूत्रं देहस्य धर्मसाधनत्वेन यतीनां यावज्जीवमाधाकर्मसेवनपरं, किन्तु तथाविधालम्बनसद्भावे कदाचिदाधाकर्मादिसेवनेनापि पुनः संयमकरणायात्मा रक्षणीय इत्येतत्परं प्रायश्चित्तविधानेन तज्जन्यपापनाशनस्य पुणो विसोहीति वचनेन प्रतिपादनात् ॥
यावज्जीवं तदासेवने तु शुद्धेरवसराभावेन पुणोविसोहीति वचनस्याऽचरितार्थत्वप्रसङ्गादिति ॥ एतेन यत्यर्थं घृतादिनिश्राविधानमपि प्रत्युक्तम् ॥ तस्याधाकर्मस्थापनाक्रीतादिदोषकलापकलितत्वेनानेकजन्तुविध्वंसहेतुत्वेन च भगवद्भिनिवारणात, इतरथा सत्रागारादीनामपि तत्कल्पत्वेन जैनधर्मे विधेयत्वप्रसङ्गात् ॥ - न च सत्रागारादीनामसंयतजनपोषकत्वेन पापहेतुत्वादविधेयत्वं घृतादिनिश्राणां तु संयतोपष्टम्भक्त्वेन पुण्यनिबन्धनत्वाद्विधेयत्वं भविष्यतीति वाच्यम् ॥
निश्रादिषु घृतादिग्राहिणां यतीनामपि गाद्धर्यादिना सिद्धान्तनिषिद्धकारित्वेना संयतत्वाभिधानात् ॥ तथा चोभयोरप्यनयोः समानदोषत्वेन जैनमते निषेधात् ॥ घृतादिसङ्ग्रहस्य च श्रावकाणामपि रसवाणिज्यत्वेनागमे निषेधादतःकथं यत्यर्थं तत्सङ्ग्रहः क्रियमाणःशोभेत ॥ - इदानी गृहिगृहेष्वलाभेन घृतादिनिश्रां विना यतीनां शरीरधरणस्याप्यालम्बनमात्रत्वात् ॥ श्रद्धालुगृहेष्वधुनापि यथेच्छं शुद्धघृतादिप्राप्तेः ॥ दुर्भिक्षाद्यपेक्षया तु कदाचिदलाभेप्यूनोदरतायास्तपस्त्वेनोपकारित्वात् ॥ यदुक्तम् ॥ लभ्यते लभ्यते साधु, साधु चैव न लभ्यते अलब्धे तपसो वृद्धि, लब्धे देहस्य धारणा ॥ तदहो मूढा आलम्बनाभासेनाद्यूनतामेव पुरः-कुर्वाणाः सर्वथा यतिक्रियामुत्सृजन्तो न लज्जन्ते ॥ - यदाह ॥ संघयणकालबलदूसमरूवालम्बणाइंघेत्तूणं ॥ सव्वं चिय नियमधुरं, निरुज्जमाओ पमुंचंति ॥ - यदपि श्राद्धश्रद्धावृद्धयेऽशुद्धग्रहणमप्यदुष्टमित्याद्यवाचि, तदपि विस्मृत-जिनवचनस्य भवतोऽभिधानम् ॥ अशुद्धपिण्डस्यदातृगृहीत्रोरहितत्वेन प्रागेव प्रतिपादनात् ॥ तथा श्रद्धाबन्धुरस्यापि भरतपतेः शकटपञ्चशत्युपनीतस्निग्धमधुरस्वादुभक्ष्यैर्यतिदानं प्रति भगवता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org