________________
२४
श्री सङ्घपट्टकः ___ एवंविधाधाकर्मशब्दस्य चतुर्द्धा व्युत्पतिरार्षत्वात् ॥ अत्र च वृत्ते एक वाक्यस्थेनैव यच्छब्देन सकलवाक्यार्थे दीपिते यत्प्रतिपदं यच्छब्दोपादानं तत्सङ्घादिभक्तस्यात्यन्तपरिहरणीयताख्यापनार्थम् ॥ एतेन यतीनामाधाकर्मभोजनसमर्थनाय यत्परैरभ्यधायि पूर्वह्यधरितः धनाधिपत्यादिश्रमणसङ्घनिमित्तनिर्वृतभक्तादिनापि धर्माधारं शरीरं धारयेत्तदा को दोष इत्यन्तं तदपि प्रतिक्षिप्तं मन्तव्यम् ॥ ___ तथाहि ॥ यदिदानींतनकालापेक्षया यतीनामाधाकर्मभोजनमिष्यते भवद्भिस्तत्कि यावज्जीवतया आहोस्वित् कादाचित्कतया ॥ यद्याद्यः कल्पः सोऽनुचितः ॥ आधाकर्म भोजनस्य यावज्जीवतया शास्त्रेऽनभिधानात् ॥
तस्यापवादेनैव तत्र प्रतिपादनात् ॥ तस्य च कादाचित्कत्वात् ॥ पुष्टालम्बनेन कदाचिदित्यकृत्यवस्तुसेवनं ह्यपवादः न चासौ सार्वदिकः ॥ तत्त्वे उत्सर्गत्वापत्तेः ॥
यथोक्तम् ॥ सामान्नविही भणीओ, उस्सग्गो तव्विसेसिओ इयरो ॥ पाणिवहाई निवत्ती तिविहं तिविहेण जाजीवं ॥ पुढवाइसु आसेवा, उप्पन्ने, कारणम्मि जयणाए ॥ मिगरहियस्सट्ठियस्सव, अववाओ होइ नायव्वो ॥
अत एव युगप्रधानैरनेकातिशयनिधानैरपि श्री वैरस्वामीपादै महादुर्भिक्षेण हेतुना विद्यापिण्डमुपभुज्यापि तस्य चाधाकर्मभोजनन्यूनदोषस्यापि ॥ पिण्डं असोहयन्तो अचरित्ती इत्थ संसओ नत्थि । चारितम्मि असम्भे सव्वा दिक्खानिरत्थिया ॥ इति, वचनाद् दुष्टतां पर्यालोचयद्भिस्तीर्थाव्यवच्छित्तये शिष्यमेकमन्यत्र प्रेष्य सपरिवारैःप्रवचनविधिनाऽनशनं प्रतिपेदे ॥
यदि हीदानीमाधाकर्मभोजनं यतीनां यावज्जीवतया विधेयं स्यात्तदा कथं तादृशाः प्रवचनधुरन्धरा विद्यापिण्डदोषभिया तादृशं महासाहसं कुर्वीरन् ॥ तस्य ततो न्यूनदोषत्वात् ॥ कालस्य च तदानीमपि दुषमात्वात् ॥ ___ न च का शक्तिरस्माकं मन्दसत्त्वानां तच्चरितमनुविधातुं न हि गजानामुदर्यन्ते यो वटकाष्टमशितंपचतीत्यस्माकमप्युदर्येण तेजसा तथा भाव्यमितिवक्तव्यं ॥ यतो न हि तच्चरितकीर्तनेन वयं तच्चरितमनुविधापयितुं भवद्भिर्व्यवसिताः किन्तु कालानुसारेणाऽद्यापि तादृशेषु दानकुलेषु सत्सु प्रासुकैषणीयेनापि प्रायेण वृत्तौ संभवत्यां किमित्याग्रहेण सङ्घादिभक्तमेवादीयते भवद्भिः ॥
दृश्यन्ते चाद्यापि केचिन्महात्मानः शुद्धेन भक्तेन संयमपालनायात्मानं यापयन्तः ॥ अथ शुद्धेनाल्पीयसामेवेदानीं शरीरयापना अत आधाकर्माभ्युपगमः ॥ तर्हि तावन्त एव दीक्ष्यन्तां किं भूयिष्ठैः ॥ तावद्भिरेवतीर्थाव्यवच्छेदसिद्धेः ॥ बहुमुण्डादिवचनस्य भवतामपि प्रसिद्धेः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org