________________
विभाग- १, बृहद्वृत्तिः
२३
कम्ममसणाइ करणंज० ॥ छक्कायारम्भेणं तं आहाकम्माहंसु । इत्यागमे आधाकर्मशब्द स्यैवं व्युत्पादनात् ॥
ननु भवत्वेतद्यत्यर्थं साधितं तथापि सिद्धान्तानिषेधान्न दुष्यतीति अत आह ॥ शास्त्रेषु ग्रन्थेषु निशीथादिषु प्रतिषिध्यते यतिभोज्यतया निवार्यते यद्भक्तम् ॥ कथं असकृदत्यन्त दुष्टताख्यापनाय मुहुर्मुहुः ॥ तथाच आहारोपधिवसत्याधाकर्मविचारावसरे निशीथेऽभिहितम् ॥
अत आह ॥ निस्त्रिशतां निश्शूकतां निर्दयत्वमिति यावत् आधत्ते करोति यत् तदाधायि निश्शूकताकारकं यद्भक्तं अयं भावः ॥ स्वयमकृताद्यप्याधाकर्म जानन् गृह्णानो मुनिर्भक्ति मद्गृहिणः प्रसङ्गात्सञ्जनादत्यन्तगृधुर्निश्शूकत्वेन सच्चित्तमपि न जह्यात् अतः कथं न दोषः ॥ तदुक्तम् ॥ सच्चं तहवि मुणंतो, गितो वडइ पसङ्गं से ॥ निद्धंधसो य गिद्धो, न मुअइ सजिअंपि सो पच्छा ॥
अत एवात्यन्तमेतज्जिहापयिषया गणधरा आनुरुप्येणैतद्गोचराण्युपमानानि दर्शयामासुः ॥ तथा चाह ॥ गोमांसादीति ॥ गोः सुरभेर्मांसं पिशितम् ॥ आदिशब्दाद्वान्तोच्चारसुराग्रहः तैरुपमा सादृश्यं यस्य तत्तथा यद्भक्तमाहुर्बुवते गणधराः स्वप्रणितागमेषु ॥
यथा हि गोमांसभक्षणं लोके धर्मविरुद्धत्वेन महापापहेतुत्वादत्यन्तनिन्दितत्वाच्च विवेकिनां सर्वथा हेयम् । तथा आधाकर्मभक्तमपि ॥ एवं वान्तादिष्वपि यथासम्भवं योज्यम् ॥ यथोक्तम् ॥ वन्तुच्चारसुरागोमंससममिमन्ति तेण तज्जुत्तं ॥ पत्तंपि कयति कप्पं कप्प करिसघडं ॥
अथ प्रकारान्तरेणाधाकर्म शब्दार्थं व्युत्पादयन् भयोत्पादनेनास्यावश्यहेयतां दर्शयति ॥ यथेति प्रकारे यद्भक्तं भुक्त्वाऽशित्वा यतिर्मुनिर्याति गच्छति अधोऽधस्तात्संयमादिति द्रष्टव्यम् ॥ अथवाऽधोगतिं नरकम् ॥ एतेनाधाकर्मशब्दस्यार्थद्वयं व्युत्पादयता प्रकरणकारेणाऽपरमप्यर्थद्वयं सूचितम् ॥
यथात्मनमिति ॥ आत्मकर्मेति च ॥ तत्रात्मानं चारित्रात्मानं हन्ति आत्मघ्नम् ॥ आधाकर्मभोजिनो हि तावत्पाकारम्भानुमत्यादिभिश्चारित्रात्मा हन्यते ॥ तथा आत्मनि कर्म आत्मकर्म । आधाकर्म परिणतो हि यतिरेषणीयमपि गृह्णन् गृहिणा स्वार्थं पाकारम्भादि यत्कर्म निर्वर्त्तितम् तदहो मत्कृते शोभनमिदमन्नं निष्पन्नमिति परितोषादात्मनि निवेशयति तेन च बध्यत इति भवत्यात्मकर्म ॥
यदुक्तम् ॥ अहवा जंतग्गाहिं, कुणइ अहे संजमाउ नेए वा ॥ हणइ व चरणायं से अहकम्म तमाय हम्मंवा ॥ आहाकम्मपरिणओ, फासुअमवि संकिलिट्ठपरिणामो || आययमाणो बज्झइ तं जाण अत्तकम्मं तु ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org