________________
श्री सङ्घपट्टकः चेत्कर्महरो भवेदित्यादि पूर्वव्याख्यातमिति वृत्तार्थः ॥५॥
साम्प्रतमेतानि दशद्वाराणि यथाक्रमं प्रत्याचिख्यासुः प्रथमं तावज्जीवोपमर्दनाद्यनेकदोषोविर्भावपुरस्सरम् उद्देशिकभोजनद्वारं प्रत्याख्यातुमाह ॥
॥ मूलकाव्यम् ॥ षट्कायानुपमृद्य निर्दयमृषीनाधाय यत्साधितम्, शास्त्रेषु प्रतिषिध्यते यदसकृन्निस्त्रिंशताधायि यत् । गोमांसाधुपमं यदाहुरथ यद्भुक्त्वा यतिर्यात्यधः,
तत्को नाम जिघित्सतीह सघृणः सङ्घादिभक्तं विदन् ॥६॥ . टीका:-कः सघृणो दयालुः विदन् सङ्घादिनिमित्तमेतन्निष्पन्नमिति जानन् इहेति प्रवचने जिघित्सति अत्तुमिच्छति ॥ अदेः सनन्तस्य घसादेशेरुपं किं तत् सङ्घः साधुसाध्वीरुपः श्रमणगणः आदिशब्दादेकद्विआदिश्रमणपरिग्रहः तस्य भक्तं तत्कृते निवृत्तमशनादि नामेति कुत्सायां अतीवकुत्सितमेतद्भक्तं मुनीनाम् ॥ जानतो मुनेः कृपालोरेवंविधं भक्तं भोक्तुं न कल्पत इत्यर्थः ॥ ___ अत्र च विदन्नितिग्रहणच्छृतोपयोगेन बाह्यलिङ्गपरिक्षापुरःसरं यतमानस्य यते: कदाचिदाधाकर्मग्रहणेऽपि सम्यगनवगमात्तद्भुञानस्यापि न दोषः ॥ यथोक्तम् ॥ थोवन्ति न पुठं न कहियं व गूढेहि नायरोवकओ ॥ इय छलिओ वि न लग्गइ सुओवउत्तो असढभावो । ___ अथैतस्मिन् को दोषो येनैतदेवं कुत्सितमत आह यत्साधितं तच्छब्दस्य यच्छब्देन नित्याभिसम्बन्धात्ततश्च यद् भक्तं साधितं निष्पादितं गृहस्थेनेतिशेषः ॥ किं कृत्वा आधायउद्दिश्य कान् ऋषीन् यतीन् यतिभ्यो मयैतद्देयमिति मनसि कृत्वेत्यर्थः ॥ ___अथ निरवद्यवृत्या यतिनिमित्तं साधितेप्यस्मिन् को दोष इत्यत आह ॥ उपमृद्य विध्वस्य कान् षट्कायान् ॥ षड्विधजीवनिकायान् कथम् उपमृद्येत्याह निर्दयमिति क्रिया विशेषणं निरनुकम्पं यथा भवति ॥ अयमर्थ एतावत्किल वह्निपाकारम्भो न सानुकम्पस्य नापि षट्जीवनिकायोपमर्दनमन्तरेण सम्भवति ॥ एवं च निरवद्यवृत्त्या न भक्तसाधनं कथमपि सङ्घटते ॥
यदर्थं चैतावानारम्भस्तस्य तज्जन्यसकलपापानुषङ्गात्वतभङ्गप्रसङ्गः ॥ यदाह ॥ जस्सट्ठा आहारो आरम्भो तस्स होइ नियमेण ॥ आरम्भे पाणीवहो पाणीवहे होइ वयभङ्गो ॥ अतः कथमस्य भक्तस्य न कुत्सितत्वम् ॥
एतेन वस्तुत आधाकर्मपर्यायता सङ्घादिभक्तस्य सूचिता ॥ आहाय वियप्पेणं जइण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org