________________
विभाग-१, बृहद्वृत्तिः
तथा सावधं सपापमाचरितम् आचरणा गृहिणां नियतगच्छभजनादिलक्षणम् ॥ तत्रादर आग्रहः ॥ आचरणा हि निरवद्यैव प्रमाणम् एषा च सावद्या गृहिदिग्बन्धाद्याचरणाभ्यु पगमे हि यतेस्तद्विधीयमाननिखिलपापारम्भानुमत्याद्यापत्तेः तथाप्येषा चैत्यवासिभिराहता ॥
यतस्तेषामयमाशयः क्षेत्रकालाद्यपेक्षया हि सर्वजैनमतानुष्ठानं व्यवस्थितम् ॥ ततो यदि गृहिनियतगच्छभजनादिकामाचरणां वयं नाद्रियेमहि ततः कषायकलुषितहृदयत्वात्प्रायेण सम्प्रतितनयतीनां गृहस्थान्योन्याकृष्टय कलहेनाव्यवस्थायां सर्वमसमंजसमापद्येत तस्मादेषाप्याचरणाऽद्यतनकालापेक्षया युक्तिमती ॥
॥ यदुक्तम् ॥ उत्पद्यते हि सावस्था देशकालामयान् प्रति ॥ यस्य मेऽकार्य कार्य स्यात्कार्यं कर्म च वर्जयेदिति ॥८॥
तथा श्रुतस्य सिद्धान्तस्य पन्था मार्गस्तत्रावज्ञाऽनादरस्तेह्येवमाहुः भगवत्सिद्धान्तो हि नैकान्तेनैव विहितानुष्ठाननिष्ठः निषिद्धानुष्ठाननिषेधनिष्ठो वास्ति ॥ विहितानामपि केषाञ्चिदनुष्ठानानां क्वचिन्निषेधात् ॥ निषिद्धानामपि क्वचिद्विधानात् ॥ अतो नास्थामास्थाय सिद्धान्तव्यस्थया केवलया किमपि कर्तुं परिहत्तुं वा पार्यते ॥ -. एवञ्च ॥ नविकिञ्चि अणुन्नायं पडिसिद्धं वा वि जिणवरिंदेहिं ॥ इति वचनादागमबहिष्ठापि काचित्सुकुमारा क्रियाऽद्यतनसाधुप्रवर्तिता विवेकिनां निःश्रेयसाय भविष्यति किं श्रुतेनेति ॥ यदुक्तम् - रूग्विणः कल्पतां यान्ति मृद्व्यापि क्रियया यथा ॥ कालेन धर्मक्रियया तथा मुक्ति शरिरीण इति ॥९॥
· तथा गुणिषु ज्ञानादिगुणवत्सु यतिषु. द्वेषधीर्मात्सर्यबुद्धिः ॥ स्वयं निर्गुणानां तद्गुणानसहिष्णूनां तदुपजिघांसया दुष्टामतिरिति यावत् ॥ कथमियं तन्मते न धर्म इति चेदुच्यते ॥ इदानीं हि भगवद्विरहात्सम्यग् मार्गापरिज्ञानेन बहुलोकप्रवृत्तिरेव मोक्षमार्गः ॥ महाजनो येन गतः स पन्था इति न्यायात् ॥ - एते च परगृहवासिनो धार्मिकंमन्या आत्मानमेवैकं गुणैरुत्कर्षयन्तो निखिलानप्यपरान् दूषयन्त ऐदंयुगीनं सङ्घमप्यवमन्यमानास्तत्प्रवृत्ति दूरेण परिहरन्तो लोकव्यवहार-मप्यजानन्तः सङ्घबाह्या एव अतः सर्वथैत उच्छेत्तव्या इति द्वेष एवैतेषु श्रेयानिति ॥१०॥ - गौतमादिषुवतित्वात्तादृशेषु यतिध्वनिः ॥ कथमेतेषुवर्तेत निर्गुणेष्वसञ्जमेषुचेत् ॥१॥ कल्पक्षोणीरुहां यद्वत्गुणायोगेपिवर्त्तते ॥ निम्बादिषु तरुध्वानो विना विप्रतिपत्तितः ॥
यथा च जात्यरत्नानां गुणाभावेपि तादृशाम् ॥ काचसान्द्रान्शुचिर्चिक्ये मणी शब्दः प्रवर्तते ॥३॥ गौतमादिगुणायोगेपीदानींतनसाधुषु ॥ उद्यच्छत्सु स्वशक्त्यैवं प्रवर्त्यति यतिध्वनिः ॥४॥ इति वास्तवक्षात्यादिदशविधयतिधर्मस्पर्द्धयैव यथाछन्दैः प्रदर्शितो धर्मः अयं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org