________________
श्री सङ्घपट्टकः संसारित्वायेतिप्रतिपादनेनास्यार्थस्याभ्युपगमात् ॥ हरिभद्रसूरिणापि सम्यक्त्वदीक्षारोपणावसरे श्राद्धानां धनधान्यस्वजनपरिजनादिसमेतस्यात्मनो गुरुसमर्पणाभिधानेन तत्स्वीकारस्य समर्थनात् ॥ यदाह ॥ अह तिपयाहिणपुव्वं, सम्मं सुद्धेण चित्तरयणेण ॥ गुरूणो निवेयणं सव्वहेव दढमप्पणा इत्थ ॥
गुरूणा च श्राद्धानां श्रद्धानुगुण्यनेन दानोपदेशात् ॥ गुरोस्तत्स्वीकारं विना च तेषां तथा निवेदनाद्यनुपपत्तेः ॥ अन्योन्यापेक्षत्वात्स्वीकारस्य ॥ अन्यथेत्थमात्मनिवेदनाभिधानस्य लोकपङ्क्तिमात्रफलत्वापत्तेः ॥ एतेन दिग्बन्धोपि गृहिणां यतिवन्न दुष्यतीति ॥
तथा चैत्यसदनस्वीकारोप्यधुनातनमुनीनां समीचीनः ॥ उक्तन्यायेन सम्प्रति गृहमेधिनां चैत्यचिन्तां प्रति निरवधानतया यतिस्वीकारमन्तरेण कालेन तभ्रंशसम्भवात् ॥ मार्गलोपप्रसङ्गेन चागमेप्यर्थापत्त्या तत्स्वीकारस्याभिधानात् ॥
सीलेह मलफलए इयरे चोएन्ति तन्तुमाईसु ॥ अहिजुज्जन्ति सवित्तिसु ? अणिच्छफेडंतदीसंता ॥ अत्र हि लिङ्गिनः प्रति सुविहितानां चैत्यसमारचनादिव्यापारणमुक्तम् ॥ न च तत्स्वीकारं विना तेषां तत्सम्भवति ॥ अस्वीकृते च वस्तुनि इतरप्रेरणयापि प्रायेण लौकिकानां समारचनाद्यप्रवृत्तेरिति ॥६॥
तथा न विद्यते प्रेक्षितं प्रत्युत्प्रेक्षणा चक्षुषा निरीक्षणमादिशब्दात्प्रमार्जनं रजोहरणादिना सूक्ष्मजीवापसारणं च यत्र तत्, आसनं विष्ठरं स्यूतगब्दिकादि शुषिरगम्भीरसिंहासनादौ च प्रत्युपेक्षणादि यतीनां न शुध्यति, तेन च तत्र न कल्पते उपवेष्टुं चैत्यवासिनस्त्वेवं प्रतिपद्यन्ते ॥ प्रवचनप्रभावनाहेतोस्तादृशासनोपवेशनस्यापि साधीयस्त्वात् प्रवचनप्रभावनायाः प्रधानदर्शनाङ्गत्वेन यथाकथञ्चन विधेयत्वात् ॥
यथोक्तम् ॥ नाणाहिओ वरतरं, हीणो वि हु पवयणं पभावितो इति । तथा सिंहासनोप-वेशनस्य गणधराणां व्याख्यानविधावागमेऽपि श्रवणात् ॥ यदाह ॥राओवणीयसीहासणोवविट्ठो व पायपीढंमि ॥ जिट्ठा अन्नयरा वा गणहारि कहेइ बीयाए ॥ तथाच तदनुसारेणाधुनिकसूरीणामपि धर्मदेशनादौ तदुपवेशनस्य समीचीनत्वात् ॥
अत एव भगवान् दशपूर्वधरः श्री वैरस्वामी, अहो भगवतः सर्वातिशायिनी व्याख्यालब्धिः किन्तु न तादृशी रूपसम्पदिति राजान्तःपुरवचनकर्णनानन्तरं द्वितीयेन्हि नैसर्गिकी शरीरसौन्दर्यसम्पदमाविर्भाव्य यत्यऽनुचितमपि हिरण्मयकुशेशयमध्यास्य प्रवचनप्रभावनायै संसदि धर्मकर्मकथां प्रथयाम्बभूवेति ॥ ततः सिद्धमिदमाचार्याणां गब्दिकाद्यासनमुपादेयं, प्रवचनप्रभावनाङ्गत्वात्, सम्मत्याद्यध्ययनवदिति ॥७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org