________________
विभाग-१, बृहद्वृत्तिः भङ्गप्रसङ्गेनाऽन्यशुद्धवसत्यलाभेन च यतीनामाधाकर्मिक्यपि वसतिरनुज्ञाता ग्रामाद्यन्तवसद्भिश्च स्त्रीसंसक्तिवियुता श्रुतोक्तनिखिलगुणयुता दुरापा वसतिः ॥ अन्तत स्त्रीशब्दश्रवणस्यापि संभवात् ॥
जिनगृहवासे तु यतीनां न तथासंसक्तिसम्भवः, चैत्यवन्दनार्थमेव क्षणमात्रमागत्य गन्त्रीणां श्राविकादीनां यतिभिः सह तथाविधप्रसङ्गानुपपत्तेः ॥ न च एक्का मूलगुणेसुमित्याद्यागमबलेन प्रत्युत स्त्रीसंसक्तवसतित्यागेनाधार्मिकवसतिवासो यतीनां सङ्गतो, न तु जिनगृहवास इति वाच्यम् ॥ आधाकर्मस्त्रीसंसक्त्यादिदोषजालरहितजिनगृहवासलाभ आधाकर्मवसतिवासस्यात्यन्तमनुचितत्वात् ॥ ___को ह्युन्मत्तः पथ्याशनावाप्तावपथ्यमश्नीयात् ॥ तस्मात्परगृहवसतिरसमीचीनाऽधुनातनयतीनां यस्त्वागमे परगृहवासः श्रूयते स तात्कालिकातिसात्त्विकयत्यपेक्षयेति ॥ तथा च प्रयोगः ॥ यतीनां परगृहवासोऽनुपपन्नः ॥ अनेकदोषदुष्टत्वात् प्राणातिपातवदिति ॥
तथा स्वीकारः स्वसत्तापादनं केष्वित्याह ॥ अर्थो द्रविणं गृहस्थः श्रावकः चैत्यसदनं जिनायतनं ॥ ततोर्थश्चेत्यादि द्वन्द्वः तेषु ॥ तत्र द्रव्यस्वीकारस्यागमे निषिद्धत्वेऽपि सांप्रतिकयतीनां तत्स्वीकारो युक्तः ॥ तमन्तरेण ग्लानपरचक्रदुर्भिक्षाद्यवस्थायां भैषज्यपथ्याद्यनुपपत्तेः ॥ तद्विना च धर्मशरीरस्याभावप्रसङ्गात् ।। गृहमेधिनां च प्रायेण कालदोषान्निधर्मत्वेन च यतिचिन्ताद्यविधानात् ॥ __ तथा साम्प्रतं चैत्यद्रव्यमपि यतिभिः स्वीकृत्य वर्द्धनीयं मूलधनं रक्षद्भिस्तै वृद्ध्यादेरधिकीभवता द्रव्येण प्रवचनाव्यवच्छित्तये दुर्बलश्राद्धानामुद्धारकरणात् ॥ तेषां च तथादौर्गत्यपङ्कादुद्धतानां कालेनानवरतचैत्यसपर्याचिन्तादिना तीर्थप्रभावनया बहुतरपुण्यार्जनसम्भवात् ॥ तदुद्धारं विना तु प्रवचनोच्छेदप्रसङ्गात् ॥ इत्यर्थस्वीकारोऽधुनातनमुनीनां सङ्गत इवाभातीति ॥४॥
तथा श्रावकस्वीकारोप्यद्यतनमुनीनामुत्सर्गापवादपदवीविदुराणां न नियुक्तिकः॥ पूर्वं हि कालस्य सौस्थ्यादतिशयवत्पुरूषबाहुल्यात् कुतीर्थ्यानामल्पीयस्त्वात् लोकस्य प्रायेणासंक्लिष्टत्वात् च जैनमतबाह्या अपि जनाः सिताम्बरभिक्षुभ्यः सबहुमानं भिक्षादिकं व्यतरिष्यन् ॥ साम्प्रतं तु प्रादुर्भवद्भरिकुतीर्थिकसार्थकुमतकदर्थितान्तकरणतया जैनमार्गवैमुख्येन तेषां तथाविधश्वेताम्बरभिक्षाया अभावात् ॥ अतः श्राद्धस्वीकारं विना भिक्षावाप्तेस्नुपपत्तेः युक्तं सम्प्रति तत्स्वीकारः ॥ ___ तथा आगमेपि ॥ जा जस्स ठिई जा जस्स संठिई, पुव्वपुरिसकया मेरा ॥ सो तं अइक्कमन्तो, • अणंतसंसारिओ होइ इत्यादिना स्वीकृतगुरुपरिहारेणापरगुरोरङ्गीकारः श्रावकाणामनन्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org