________________
श्री सङ्घपट्टकः कुचकलशपीठलुठनदुर्ललितानां निरन्तरमेव भूरिभूरिल्लिप्सया पार्थिवसेवाहेवाकिनां जिनगृहावलोकनमेव न सम्पद्यते, दूरे तच्चिन्ता ॥ तदभावे च कालेन जिनसदनानां विशरारुता स्यात् ॥ तथाच तीर्थोच्छित्तिरापनीपद्यते ॥
चैत्यान्तर्वासे तु यतीनां तदुद्यमेन भूरिकालं जिनभवनान्यवतिष्ठरेन् । तथा च तीर्थाव्यवच्छेदः ॥ तदव्यवच्छित्तिहेतोश्च किञ्चिदपवादासेवनस्यागमेपि समर्थनात् ॥ यदाह ॥ जो जेण गुणेण हिओ जेण विणा वा नसिज्जए जंतु इत्यादि । तदेवं सूक्ष्मेक्षिक्या विमृश्यतां विदुषां चेतसि चैत्यवास एवेदानीन्तनमुनीनां सङ्गतिमङ्गतीति ।
तथा वसत्यक्षमेति ॥ वसतौ परगृहे निवासं प्रति अक्षमा मात्सर्यं परगृहवासोगे निराकरिष्यत इति यदुक्तं, तदिदानी व्यज्यते । सर्वव्रतेषु निरपवादं हि ब्रह्मव्रतं यतीनामागमे गीयते, यदुक्तम् ॥ न वि किञ्चि अणुन्नायं, पडिसिद्धं वा वि जिणवरिंदेहिं ।। मुत्तुं मेहुणभावं, न सो विणा रागदोसेहिं ॥ न च तत् स्त्रीशब्दश्रवणादेः सम्यक् निर्वोढुं पार्यते ॥ उत्कलिकादिप्रादुर्भावात् ॥ परगृहे वसतां चावश्यम्भाविनः तच्छ्रवणादयः ॥
तथा च नितम्बिनीनां तुलितकोकिलाकलकूजितं गीतादिरवमधरितरतिसौन्दर्यं च रूपमुपलभ्य भुक्तभोगानां पूर्वानुभूतनिधुवनविलसितप्रतिसन्धानादयोऽभुक्तभोगानां च . तत्कुतूहलादयः प्रादुर्भवेयुः ॥ ___ यतिनां च सततं कर्णपीयूषवर्षिविशदगम्भीरमधुरस्वाध्यायध्वानं निशम्य केषां चित्तु शरीराण्यगण्यलावण्यश्रीणि निर्वर्ण्य प्रोषितपतिकादीनां तरुणीनां रिम्सादयः प्रादुःष्युः ॥ एवं चान्योन्यं निरन्तररूपावलोकनगीतश्रवणादिभिर्दुर्मथमन्मथोन्माददौस्थ्यचारित्रमोषादयोऽनेकदोषाः पुष्येयुः ॥
यथोक्तम् ॥ थीवज्जियं वियाणह इत्थीणं जत्थकाणरूवाणि ॥ सद्दा य न सुच्चंती, ताविय तेसिं न पेच्छेहि ॥ बंभवयस्स अगुत्ती, लज्जानासो य पीइवुड्ढी य ॥ साधु तवोवणवासो, निवारणा तिथ्थ परिहाणी॥
तथा लौकिका अप्याहुः ॥ श्रृणु हृदयरहस्यं यत्प्रशस्यं मुनीनां, न खलु न खुल योषित्-संनिधिः संविधेयः ॥ हरति हि हरिणाक्षी क्षिप्रमक्षिक्षुरप्रप्रहतशमतनुत्रं चित्तमप्युन्नतानाम् ॥
अत एव निशीथे पञ्चमोद्देशके एक्कद मूलगुणेसुं अविशुद्धा इत्थि सारिया बीया ॥ तुल्लारोवणवसही, कारणि तहि कत्थ वसियव्वं ॥ अत्र तुल्लारोवणत्ति ॥ उत्सर्गेणोभयोरपि वसत्योर्वासे तुल्यं प्रायश्चित्तमित्यर्थः ॥अथापवादे क्व वस्तव्यमितिप्रश्ने ॥ अहवा गुरुस्स दोसा, कम्मे इवरीय हुति सव्वेसि ॥ जइण तवोवणवासं, वसन्ति लोगे अ परिवाओ।
अत्र इतरस्यां स्त्रीसंसक्तायां वसतौ वासे प्रागनुभूतविलसितस्मृतिकरणादिना चतुर्थव्रत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org