________________
विभाग-१, बृहवृत्तिः
इति भगवत्प्रतिपादितमुमुक्षुप्रवृत्तिनिवृत्तिरूपागमश्रुतादिव्यवहारपचञ्चकान्तः पात्यागमविरुद्धाचरणानभ्युपगमे च भगवदप्रामाण्यसञ्जनात् ॥ तथाच भगवदाशातनाप्रसङ्गात् ॥
आचरितलक्षणस्येहोपपत्तेः ॥ तथा चागमः ॥ असढेण समाइन्नं जं कत्थई केणई असावज्जं न निवारियमन्नेहि, बहुगुणमणुमेयमायरियम् ॥ ___ अयं च न तावच्छछैः समाचीर्णो, द्रव्यक्षेत्रकालाद्यपेक्षया गुरुलाघवचिन्तया धार्मिकैरेवास्य प्रवर्तितत्वात् ॥ नाप्ययं सावधः सावधं हि पापं, तच्च जीववधादि ॥ न च यतीनां चैत्यवासविधौ जीववधादिकं प्रयत्नेनान्वेषयन्तोप्युपलभेमहि ॥ निरवद्यत्वादेवं च न बहुश्रुतैस्तत्कालभाविभिर्गीतार्थनिवारितः अत एव बहूनां धार्मिकाणामनुमतः ॥
सिद्धान्तनिकषपट्टानां विरचितानेकश्रुतोद्धारसारशास्त्राणां श्रीहरिभद्रसूरीणां तथाप्रवृत्तिश्रवणात् ॥ स्वरचितग्रन्थेषु चैत्यवासप्रतिपादनेन च तथाप्रवृत्तेस्तैः सत्यापनात् ॥ तथा च तद्ग्रन्थः ॥ जिणबिम्बपइट्टत्थ, अहवा तक्कम्मतुल्लति ॥ तथा जिणबिम्बस्स पइट्ठा साहुनिवासो य इत्यादि।
देयं तु न साधुभ्यस्तिष्ठन्ति यथा च ते तथा कार्यम् ॥ अक्षयनीव्या ह्येवं ज्ञेयमिदं वंशतरकाण्डमिति ॥
तथा समरादित्यकथायामपि जिनभवनान्तर्गतप्रतिश्रयस्थितायाः साध्व्याः केवलोत्पादप्रतिपादनात् ॥ तथाधुनिकमुनीनां बहूनां चैत्यवासप्रवृत्तिदर्शनात् ॥ यदि ह्ययं गीतार्थानां नानुमतः स्यात्तदा कथमेकवाक्यतया सर्वत्रा प्रतिहतप्रसरः प्रवर्तते ॥ . न च विशेषदोषोपलम्भमन्तरेण गीतार्थचरितमप्रमाणीकर्तुं युक्तम् ॥ नापि विरुद्धः साध्यविपर्ययाव्याप्तत्वात् ॥ न हि गीतार्थाचरितत्वं यत्यविधेयत्वेन व्याप्तम् ॥ तथासति पर्युषणाया अपि चतुर्थ्यामकरणप्रसङ्गात् ॥ नाप्यनैकान्तिकः विपक्षेऽगतत्वात् ॥ न हि गीतार्थाचरितत्वं यत्यविधेयेप्यनुष्ठाने गतम् ॥ प्राणातिपातादीनामपि गीतार्थाचरितत्वेन हि तत् स्यात् ॥ न चैवमस्ति ॥
किञ्च, यतीनां चैत्यवासमन्तरेण साम्प्रतिकजिनभवनानां हानिः स्यात् ॥ तथाहि ॥ पूर्व कालानुभावादेव श्रीमन्तोऽव्यग्रचेतसो देवगुरुतत्त्वप्रतिपत्तिभरनिर्भरतया ह्येतदेव परं तत्त्वमिति मन्यमानाः श्रावकाश्चैत्यचिन्त्यचिन्तां परमादरेणऽकरिष्यन् ॥ साम्प्रतं तु दुःषमादोषान्नक्तंदिवं कुटुम्बसम्बलचिन्तासन्तापजर्जरितचित्ततयेतस्ततो धावतां प्रायेण दुर्गतानां श्राद्धानां स्वभवनेप्यागमनं दुर्लभमास्तां जिनमन्दिरे तथा च कुतस्त्याः तत्समारचनादिचिन्ता तेषाम् ॥ ____ श्रीमतां तु प्रतिकलमदालसवारविलासिनीघनसारशबलमलयजरसपङ्किलपीन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org