________________
श्री सङ्घपट्टकः
न च तत्र आधाकर्मिकादयो दोषाः ॥ तथा च प्रयोगः ॥ चैत्यमिदानींतनमुनीनामुपभोगयोग्यम् ॥ आधाकर्मादिदोषरहितत्वात् ॥ तथाविधाहारवत् ॥ नचायमसिद्धो हेतुः ॥ जिनप्रतिमार्थं निष्पादित आयतने आधाकर्मादिदोषोनवकाशात् ॥ यत्यर्थं क्रियमाणे हि तस्मिन्स स्यात् ॥
१६
तथागमोक्तत्वमप्यस्यास्ति ॥ तथा चागमः ॥ " निस्सकडमनिस्सकडे" वावि चेइए सव्वहि थुइं तिन्नि | वेलं व चेइयाणि व नाउंइक्किक्किया वि ॥
अत्र हि निश्राकृतव्यपदेशात् चैत्यवासः साधूनां सिध्यति ॥ अन्यथा यत्र साधूनां निश्रा तन्निश्राकृतमित्यन्वर्थानुपपत्तेः ॥ तन्निवासेनैव तन्निश्रायाः संभवात् ॥ यदि च साधूनां तत्र वासो न स्यात् तदाऽनिश्राकृतमेवैकं चैत्यं भवेत् ॥ अन्यस्य निश्राकृतपदवाच्यस्यानुपपत्तेः ॥
तथा च निश्राकृतपदवाच्यस्य शशविषाणायमानत्वेनानिश्राकृततुल्यकक्षतया तंत्र वन्दनाभिधानमपि कथं घटामटाट्यते ॥ तस्मात्तद्व्यपदेशान्यथानुपपत्त्यैव यतीनां तत्र वासोऽवसीयते ॥
तथा संभावणे विसो देउलियखरंटजयणउवएसो इत्याद्यागमे ग्लानप्रतिजागरणचिन्तायां देवकुलिकशब्दादपि चैत्यवाससिद्धिः देवकुलिकनिवासमन्तरेण देवकुलिकव्यपदेशानुपपत्तेः । न हि ग्रामाभावे सीमाविधानं नामेति लौकिकन्यायात् । एवं चैवमाद्यागमवचनप्रामाण्यादागमोक्तत्वमप्यस्येति निश्चीयते ॥
तथा च प्रयोगः ॥ चैत्यनिवास इदानींतनमुनीनामुचित आगमोक्तत्वात् ॥ चैत्यवन्दनवत् ॥ नन्वेवमपि सिद्धान्तान्न साक्षात् चैत्यवासः सिद्ध्यति ॥ विधेयतया तस्य क्वचिदप्यनभिधानादिति चेत् । सत्यमेवं तर्हि गीतार्थाचरितत्वादयमुपपत्स्यते ॥ तथाच साधूनां जिनभवनवासो विधेयः । गीतार्थाचरितत्वात् । चतुर्थ्यां पर्युषणापर्ववत् नचायमसिद्धो हेतुः ॥ गीतार्थाचरितत्वस्योभयत्रापि प्रतीतत्वात् ॥ तथाहि ॥ श्रीमदार्यरक्षितपादैर्भगवति महावीरे निःश्रेयससौधमध्यासीने गीतार्थानां बलमेधासंहननधैर्यादिहानिं पृष्टवंशादिसहितवसति-व्यवच्छेदं चोपलभ्य चैत्यवासो यतीनामाचरितः ॥
कुत एतदवसितमिति चेत् ॥ आप्तोपदेशात् ॥ तथाहि ॥ च्छ्व्वाससएहिं वीसुत्तरेहिं, सिद्धि गए महावीरे ॥ वुच्छिन्नं च जईणं, पिट्ठीवंसाइयं ठाणं ॥ बलमेहाबुद्धीणं, हाणि नाऊण सुविहियजणस्स ॥ चेइयमठआवासो पकप्पिओ अज्झरक्खेहिं ॥
न चागमाविरोधिन्याचरणा प्रमाणम्, इयं तु न तथेति वाच्यम् आगमाविरोधस्य निस्सकडेत्यादिना समर्थितत्वात् ॥ गीतार्थाचरणा चागमं प्रमाणयद्भिरवश्यमभ्युपेतव्या ॥ यदुक्तम् ॥ अवलंबिऊण कज्जं, जं किंचि आयरंति गीयत्था ॥ थोवावराहबहुगुण, सव्वेसिं तं पमाणंति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org