________________
१५
विभाग-१, बृहद्वृत्तिः
आत्मा च यतिना यथाकथञ्चन रक्षणीयः ॥ धर्मसाधनत्वात् ॥ यदुक्तम् ॥ सव्वत्थ संयमं संजमाओ अप्पाणमेव रक्खंतो ॥ मुच्चइ अइवायाओ पुणो विसोही नयाविरई ॥
तथा कथञ्चित् रूक्षभक्तादिदातृसद्भावेपि घृतादिव्यतिरेकेणाद्यतनयतीनां शरीरधारणानुपपत्तेः ॥ तत्कृते घृतादिनिश्रापि केनचित्पुण्यात्मना श्राद्धेन विधीयमाना समीचीनैव प्रतिभासते ॥
किञ्च ॥ यथाकथञ्चित् साधुभिः श्राद्धानां श्रद्धावृद्धये अशुद्धमपि ग्राह्यं ॥ तथैव तेषां पुण्योत्पत्तेः ॥
तदुक्तम् ॥ अनेन पात्राय नियोजितेन स्यान्निर्जरा मे वसुनाधुनेति ॥ बुद्ध्या निराशंसतया ददानः पुण्यं गृहस्थः पृथु सञ्चिनोति ॥
परोपकारश्चायं स्वकार्यमुपेक्ष्याप्यवश्यं कर्त्तव्यः ॥ यदुक्तम् ॥ नियकज्जं परकज्जं व, जे पण विरइंति || परकज्जं नियकज्जं व, तेसु सप्पुरिसया वसइ ॥
तस्माद्यतीनामाधाकर्मिकभोजनमदुष्टं, संयमशरीरोपष्टंभकत्वात् ॥ कल्पग्रहणवत् ॥ शुद्धभोजनवद्वा ।। तथा यतिभिराधाकर्मिकभोजनं विधेयं, श्राद्धश्रद्धावृद्धिहेतुधर्मदेशनवत् ॥ इति प्रयोगावप्युपपद्ये ॥
तथा जिनानामर्हतां गृहमायतनं तत्र वास: सर्वदावस्थानम् ॥ इह केचित् सुख. शीलतयोद्यतविहारं कर्त्तुमशक्नुवन्तो यतीनां चैत्ये सर्वदावस्थानं युक्तमिति प्रतिपेदिरे ॥
तथाहि आधुनिकमुनीनां चैत्यवासमन्तरेण उद्यानवासो वा स्यात्, परगृहवासो वेति, द्वयी गतिः ॥ तत्र परगृहवासोऽग्रे निराकरिष्यते ॥ स्त्रीसंसक्त्याद्याधाकर्मिकादिदोषकलापभावात् ॥
उद्यानवासो यतीनां युक्त इति चेन्न ॥ तत्रापि नूतनचूताङ्कुरास्वादकूजत्कलकण्ठ• पञ्चमोद्वारेण उन्मीलद्विचकिलबकुसमालतीपरिमलेन च समाहितमनसामुत्कलिकादर्शनात् ॥ पञ्चमोद्गारादीनां चोद्दीपनविभावकत्वेन भरतादिशास्त्रेऽभिधानात् ॥
तथा चिक्रीडिषागतकामुककामिनीसंकुलत्वेन च स्त्रीसंसक्त्यादेरपि तत्र भावात् ॥ अथवा मा भूवन्ननवरतशास्त्राभ्यासपरावर्त्तनादिपराणां यतीनामेतज्जन्या दोषाः ॥ तथापि लोकचारशून्योद्यानभूमौ वसतां चरटतस्करादिभिरुपकरणापहारस्यापि संभवात्, तदपहारे च शरीरसंयमविराधनाप्रसङ्गात् ॥
यत्तूद्यानवास आगमे श्रूयते सोऽनापातासंलोकगुप्तैकद्वारोद्यानविषयस्तस्य च प्रायेण कलिकाले लोकस्य राजचौरचरटाद्युपप्लवैर्बाधितत्वेन दौस्थ्यादसंभव एवेत्युद्यानवासः ! कथमधुनातनमुनीनां कल्प्यमानः शोभते ? तस्मादिदानीं जिनगृहवास एव साधूनां सङ्गतः प्रतिभाति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org