________________
१४
॥ मूलकाव्यम् ॥ अत्रौद्देशिकभोजनं जिनगृहे वासो वस्त्यऽक्षमा, स्वीकारोर्थगृहस्थचैत्यसदनेष्वप्रेक्षिताद्यासनम् । सावद्याचरितादरः श्रुतपथावज्ञा गुणिद्वेषधी, धर्मः कर्म्महरोऽत्र चेत्पथि भवेन् मेरुस्तदाब्धौ तरेत् ॥५॥
टीका:- अत्र पथि अयं धर्मश्चेत्कर्म्महरो भवेत् तदा मेरुरब्धौ तरेदिति सम्बन्धः ॥ अन अस्मिन् प्रत्यक्षोपलभ्यमाने पथि लिङ्गिकल्पिते मते धर्म्म औद्देशिक भोजनादिकः ॥ अयं चेद्यदि कर्म्महरो ज्ञानावरणादिनिरासदक्षो भवेत्स्यात्तदा तदानीं मेरुर्लक्षयोजनद्वयसः पर्वतराजः अब्धौ सागरे तरेत् प्लवेत् ॥
श्री सङ्घट्टकः
अयं च निदर्शनालङ्कारः ॥ अभवन् वस्तुसम्बन्ध, उपमापरिकल्पक इति तल्लक्षणात् ॥ ततश्चात्र प्रस्तुतधर्मकर्महरत्वयोः मेरुसमुद्रतरणयोश्च सम्बन्धोऽनुपपद्यमान उपमानोपमेयभावे पर्यवस्यति ॥ मेरोः समुद्रतरणमिव प्रस्तुतधर्मस्य कर्महरत्वम् ॥ ततश्चायमर्थः ॥ समुद्रे पाषाणशकलमात्रस्यापि तरणमसंभवि, किंपुनर्मेरोः ॥ ततो यथा मेरो: समुद्रतरण मघटमानमेवमस्य धर्मस्य कर्महरत्वमिति ॥
यत्र यस्मिन् पथि किं यतीनामौद्देशिकभोजनादिर्धर्म इष्यत इति सर्वत्र क्रियाध्याहारः ॥ तत्र उद्देशेन विकल्पेन यतीन्मनसि कृत्वा निर्वृत्तं निष्पादितम् औद्देशिकम् ॥ क्रीतादित्वादिकण् ॥ तच्च तद् भोजनं चाऽशनादि ॥ यद्यपि सिद्धान्त औद्देशिकशब्द उद्गमदोषद्वितीयभेदार्थः श्रूयते ॥ तथापीह वक्ष्यमाणद्वितीयवृत्तार्थपर्यालोचनेन आधाकस्मिके वर्त्तते ॥ तस्यैवेह केवलयतिनिमित्तविधीयमानत्वेन महादोषतया विवक्षितत्वात् ॥ उद्देशनिर्वृत्तत्वस्य च सामान्यव्युप्पत्त्यर्थस्योभयत्रापि समानत्वात् ॥
Jain Education International
अत्र च यतीनामौद्देशिकभोजनग्रहणे यथाछन्दा उपपत्तिं दर्शयन्ति ॥ पूर्वं हि अधरितधनाधिपकोशागाराणि चैत्यसाधुषु यदुपयुज्यते तदेवास्माकं वित्तमन्यदनर्थ इत्यध्यववसायव्यञ्जितदेवगुरुभक्तिभराणि महीयांसि भूयांसि दानश्रद्धालु श्राद्धकुलान्यभूवन् ॥ ततस्तेषु कुलेषु तत्कालीनयतीनां प्रासुकैषणीयेनापिभैक्ष्येण निराबाधं निर्वाहोऽभविष्यत् ॥
अधुना तु दु:षमाकालदोषात् दुर्भिक्षराजोपद्रवपरचक्रादिप्राचुर्येण दरिद्रतामल्पतां च गच्छत्सु तथाविधसंहननशक्तिविकलानां शुद्धेन भक्तादिना संयमयात्रानिर्वाहाभावे यदि कश्चिद्दानश्रद्धालुस्तीर्थाव्यवच्छेदमिच्छुः श्रावकः श्रमणसङ्घनिमित्तनिर्वृत्तभक्तादिनापि धर्माधारशरीरमुपष्टम्भयेत्तदा को दोषः ? ॥
For Personal & Private Use Only
www.jainelibrary.org