________________
विभाग-१, बृहद्वृत्तिः
अथ क्व सति जैनेन्द्रमार्गे मिथ्यात्वरुद्धत्वाद्विरलतां प्राप्त इत्याह ॥ इह किल कलिकालेत्यादि ॥ इह जगति किलशब्दार्थस्त्वने वक्ष्यते ॥ प्राणिवर्गे मानवसमुदाये सति ॥ किंरूपे लोकोक्त्या कलिकालो जिनोक्त्या च दुःषमाकालस्तेन कलिकाल एव दुःषमाकाल एव निखिलानाचारगरलनिलयत्वाद्व्यालः सर्पस्तस्य वक्त्रान्तरालं वदनमध्यम् ॥ तत्र स्थितिम् अवस्थानं जुषते सेवते यस्तस्मिन् ॥
अयमर्थः-यथा कश्चिन्महानागमुखान्तर्वर्ती तद् दंष्ट्रानिस्सरन्निरन्तरगलरभरगलितचेतनत्वान्न किञ्चित् कृत्याकृत्यं वेत्ति ॥ एवं कलिकालवय॑ऽपि प्राणिवर्गस्तत्प्रभवकुशीलताकृतघ्नताद्रोहप्रलम्भनदम्भाद्यनेकदोषपोषकलुषितान्तःकरणत्वान्नात्मनो हिताहितमवस्यतीति ॥
अत एव तत्त्वेषु भगवत्प्रणीतेषु जीवादिषु प्रीतिरेतान्येव वास्तवानि तत्त्वानि न तु कुतीथिकभणितानीति चेतसः प्रमोदः ॥ तथा नीतेायस्य सदाचारस्य प्रचारः प्रवृत्तिस्ततश्च गतौ यथाक्रमं कुदर्शनाभ्यासदुर्विदग्धत्वेन प्रमादभूधरभाराक्रान्तत्वेन च नष्टौ तत्त्वप्रीतिनीतिप्रचारौ यस्य स तथा तस्मिन् ॥ कलिकालमाहात्म्याद्धि प्राणिनां तत्त्वप्रीतिन्यायप्रवृत्तिश्च
नष्टा ॥
यदुक्तम् ॥ कलौ कुमतसंस्कारवारपूर्णे नृणां हृदि ॥ अवकाशमविन्दती, तत्त्वप्रीतिः श्रुता ध्रुवम् ॥ नष्ट श्रुतिः स्मृतिर्लुप्ता, प्रायेण पतिता द्विजाः ॥ मलेन नाशिताः शिष्टा, हा वृद्धो वर्तते कलिः ॥ :- तथा प्रसरन् ॥ तथाविधगुरुसंप्रदायाभावात् प्रादुर्भवन् अनवबोधः सम्यक्सिद्धान्तार्थापरिज्ञानं ॥ तेन प्रस्फुरन्तः उन्मीलन्तः कापथानां कुमाग्र्गाणामोघाः समूहास्तैः ॥स्थगितस्तिरस्कृतः
सुगतेरपवर्गलक्षणायाः सर्गो निष्पत्तिर्यस्य स तथा तस्मिन् इदमुक्तं भवति सम्प्रति हि कालदोषेण 'बुद्धिमान्द्यात् सातिशयगुरुसंप्रदायाभावाच्च सम्यगागमार्थापरिज्ञानेन स्वस्वमतमास्थाय बहवः कुतीथिकाः प्रादुर्भूताः ॥ ... तेषां च परस्परविरुद्धानेककुमतशतश्रवणोत्पद्यमानसंदेहदोलाधिरुढमनसः प्राणिवर्गस्य कुतः सुगतिः, न हि सानेकमार्गसाध्या ॥ तात्त्विकसम्यक्ज्ञानदर्शनचारित्रात्मकैकमार्गसाध्यत्वात् तस्याः ॥ न च दोलायमानमानसानां वास्तवैकमुक्तिपथतत्त्वनिर्णयः ॥ तदभावाच्च कथं मुक्त्युपायानुष्ठानसेवनं तदभावाच्च कथं मुक्तिरिति सम्प्रति इदानी किलेति संभावने ॥ संभाव्यते एतद्यत्कलिकालानुभावात् संप्रत्येवंविधः प्राणिवर्गः ॥ इति वृत्तद्वयार्थः॥
इदानीं योग्यस्य श्रोतुः पुरतः साधुवेषकल्पिते पथि दशभिद्वारैस्तत्प्ररूपितं धर्मं प्रतिपादयन् • 'तस्य च कर्मनिर्मूलनाऽक्षमत्वं संभावयन्निदमाह ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org