________________
श्री सङ्घपट्टकः
पक्षपातिनस्ते, ते हि स्वसदृशजनाचरितं प्रामाण्येन प्रतिपद्यन्ते ॥ यदुक्तम् ॥ एगचरिं मन्नता, सपि तेसिं पसु वट्टंता ॥ रागदोसछायणट्ठा, केइ पसंसन्ति निद्धम्मे ॥ अत एवंविधा जिनोक्तिप्रत्यर्थिनमेव मार्गं प्रथयन्ति ॥
१२
अथ भास्वतीव दीप्यमाने पारमेश्वरे पथि कुत एवंविधपथप्रथनस्य तमस इवावकाशः ॥ तत्राह ।। जगति लोके विरलतां स्तोकतां अल्पजनाभ्युपगमनीयतां याति प्राप्नुवति सति ॥ कस्मिन् ॥ जिनेन्द्रमार्गे भगवत्प्रणीते शुद्धे प्रतिश्रोतसि पथि ॥
कस्मादेतदित्यत आह ॥ प्रोत्सर्प्यद्भस्मेत्यादि ॥ प्रोत्सर्प्यन् भगवच्छ्रीमहावीरमुक्तिसमये तज्जन्मराशिसङ्क्रान्त्या तत्पक्षसङ्घस्य बाधाविधायित्वात् प्रोज्जृम्भमाणो भस्मराशिनामा मङ्गलादिवत्क्रूरो ग्रहस्तस्य सखा मित्रं राजादित्वादन् ॥ ततश्च प्रोत्सर्पद्भस्मराशिग्रहसखं यद्दशमाश्चर्यमसंयतिपूजाख्यम् ॥ अत्र च सख्यं भस्मराशिदशमाश्चर्ययोर्लोकिकसखयोरिद्धयोरपि साहचर्येण दुष्करैककार्यकारित्वम् ॥ तच्चेह कार्यं द्वयोरपि यथाच्छन्दंप्राबल्यकारित्वेन मिथ्यात्वपोषः ॥ क्वचिदसंभाव्यवस्तुदर्शनं ह्याश्चर्यम् ॥ असंयतिजनपूजा चानन्तकालभावित्वादसंभाव्या वर्त्ततेऽतो भवत्याश्चर्यं तच्च दशमम् ॥ किल जिनप्रवचने दशाश्चर्याणि निरूपितानि ॥ तदुक्तम् ॥ उवसग्ग गब्भहरणं, इत्थीतित्थं अभाविया परिसा ॥ कन्ह अपरकंका अवयरणं चंदसूराणं ॥ हरिवंश कुलुप्पत्ती चमरुप्पाओ य अट्ठसय सिद्धा || अस्संजयाण पूआ, दसविआणं तेण कालेण ॥ तत्र नवानां स्वरूपं ग्रन्थान्तरादवसेयम् ॥ असंयतपूजाश्चर्यस्यैवहोपयोगित्वात् तद्दोषप्रदर्शनोद्देशेन प्रकरणप्रवृत्तेः तस्य साम्राज्यमिव साम्राज्यं, यथा राज्ञः कस्यचित्सकलमण्डलाधिपत्यं रिपुविजयपुरस्सरमाज्ञैश्वर्यं साम्राज्यमुच्यते एवमिहापि सुविहतजनतिरस्कारेण सकललोकस्यासंयतजनाज्ञावशवर्त्तित्वं दशमाश्चर्यस्य साम्राज्यम् ॥
तेन पुष्यदेधमानं मिथ्यात्वम् ॥ अतत्त्वे तत्त्वप्रतिप्रतिरुपम् ॥ तदेव ध्वान्तं तमिस्रं सम्यग्ज्ञानालोकनिरासक्षमत्वात् ॥ तेन रुद्धे व्याप्ते ॥ जैनेन्द्रमार्गे ॥
अयमर्थः ॥ यथा ॥ श्यामायां नीरन्ध्रान्धतमसेन लोचनप्रकाशावरणात्तस्कारादि-भयेन जनाऽसञ्चाराद्राजमार्गस्य विरलत्वं, तथा भगवति विद्यमाने तन्महिम्नैव यथाछन्दानां निरस्तत्वान्न मिथ्यापथप्रथावकाशोऽभूत् ॥ निवृत्ते तु भगवतीदानीं दशमाश्चर्यप्रवृत्तेर्निरर्गलयथाछन्दोत्सूत्रदेशनया भूरिलोकस्य वासितत्वेन प्रबलमिथ्यात्वोदयात्सम्यग्दृशां न्यग्भूतत्वेन जिनेन्द्रमार्गे विरलतां प्राप्तः ॥
यथोक्तम् || पातः पूष्णो भवति महते नोपतापाय यस्मात् कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये ॥ एतावत्तु व्यथयति यदा लोकबाह्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org