________________
विभाग-१, बृहद्वृत्तिः
॥ मूलकाव्यम् ॥
इह किल कलिकालव्यालवक्त्रान्तरालस्थितजुषि गततत्त्वप्रीतिनीतिप्रचारे । प्रसरदनवबोधप्रस्फुरत्कापथौघस्थगितसुगतिसर्गे सम्प्रति प्राणिवर्गे ॥३॥
प्रोत्सर्प्यद्भस्मराशिग्रहसखदशमाश्चर्यसाम्राज्यपुष्यन्मिथ्यात्वध्वान्तरुद्धे जगति विरलतां याति जैनेन्द्रमार्गे । संक्लिष्टद्विष्टमूढप्रखलजडजनाम्नायरक्तैर्जिनोक्तिप्रत्यर्थी
११
साधुवेषैर्विषयिभिरभितः सोयमप्राथि पन्थाः ॥४॥
टीका:- एवंविधे प्राणिवर्गे सति साधुवेषैः सोयं पन्था अप्राथीति सम्बन्धः । अप्राथि अतानि । अत्र चाप्राथीति प्रथेरिनन्तस्य इचि वेत्यनेन सानुबन्धत्वाद्विकल्पनीय - हस्वनिर्मुक्तपक्षे रुपम् ॥
aisal पन्था मार्गः स्वमनीषिकाकल्पितं मतम् ॥ सोऽयं स इति सकलजनप्रसिद्धोऽयमिति इदानीं प्रत्यक्षोपलभ्यमानः कथमप्राथि ? अभितः समंताद् भूरिदेशेष्वित्यर्थः ॥ कैः साधुवेषैः साधोः सुविहितस्येव वेषो रजोहरणादिनेपथ्यो न त्वाचारो येषां ते तथेति ॥ सन्मुनिलिङ्गमात्रधारिभिः ॥
कुत एनदित्यत आह ॥ विषयिभिः ॥ विषयिभिरिति संसारगुप्तौ बध्नन्ति आसेविनं प्राणिनमिति विषयाः शब्दादयः ॥ तद्वद्भिरिन्द्रियार्थव्यासङ्गिभिः ॥ विषयासङ्गो हि यतीनां दीक्षया विरुध्यते ॥ यदुक्तम् || मुहुरपहियमाणाः सारयोऽक्षैरिवाक्षै, र्भवफलक उदारेऽतीव बम्भ्रम्यमाणाः ॥ वधविशसनबन्धैः सादमासादयन्ते, परमविषयभाजो दीक्षिता भूरिकालम् ॥
Jain Education International
किंरूपः पन्थाः, जिनानामर्हतामुक्तिर्वचनमागमः तस्य प्रत्यर्थी विरोधी पारमेश्वरसिद्धान्तविपर्यस्तार्थप्ररूपणरूपतया तदभिहितयुक्तिबाधितः । कस्मादेवंविधः पन्थाः - प्रथितम्नैरित्यत आह ॥
संक्लिष्टेत्यादि । संक्लिष्टः सातत्येन धार्मिकजनोपतापकार्त्तरौद्राध्यवसायवान्, द्विष्टो मत्सरी गुणवद्गुणाभ्रंशनप्रवणबुद्धिः ॥ मूढः ॥ हेयोपादेयविमर्शशून्यः ॥ प्रखलः ॥ प्रकर्षेण पिशुनः गुणवद्गुणासद्दूषणारोपणचतुरः जडो दुर्मेधा यो जनस्तेषामेव चतुर्विधः सङ्घस्त'स्याम्नाय : शिष्यप्रशिष्यादिसंतानः ॥ तत्र रक्ताः प्रीतिमन्तः ॥ यद्वा संक्लिष्टादिविशेषणोपेतो जनो नाम सुविहितसङ्घस्तस्याम्नायः गुरुपारम्पर्यागतः श्रुतविरुद्धाचरणा तत्र रक्ताः
For Personal & Private Use Only
www.jainelibrary.org