________________
श्री सङ्घपट्टकः तथौचित्यकारीति च ॥ लोकागमाविरोधेन गुर्वादिषु यथानुरूपं विनयादिप्रवृत्तिरौचित्यं ॥ तत्करणशीलः ॥ औचित्यहीनस्य हि शेषगुणाः सन्तोपि काशकुसुमसङ्काशाः ॥ .
यदुक्तम्, औचित्यमेकमेकत्र गुणानां कोटिरेकत: विषायते गुणग्राम औचित्यपरिवज्जित इति ॥ चो विशेषणसमुच्चये ॥ ___ तथा दाक्षिण्यीति ॥ दाक्षिण्यमनुकूलता ॥ जनचित्तानुवर्तित्वं ॥ तद्वान् ॥ निर्दाक्षिण्यो हि बांधवानामप्युद्वेजनीयो भवति ॥ यदुक्तम् ॥ निर्दाक्षिण्यो मुच्यते बन्धुभृत्यैस्तन्मुक्तस्य क्षीयतेऽस्य त्रिवर्गः ॥ क्षीणे चास्मिन्मेदिनीभारकारी कारीषाभो जीवति व्यर्थमेष इति ॥७॥
तथा दमीति ॥ जितेन्द्रियः ॥ अजितेन्द्रियो हि गुरुसेवायामपि मन्दायते ॥ यदुक्तम् ॥ अनिजितेन्द्रियग्रामः कान्ताललितकीलितः ॥ न सेवते गुरुं तस्मात् कुतस्त्यस्तत्त्वनिर्णय इति ॥८॥ तथा नीतिभृदिति ॥ सदाचारपरायणः ॥ तद्वतो हि सर्वेपि साहाय्यं भजन्ते ॥ तद्विपरीतस्य च वैपरीत्यम् ॥ यदुक्तम् ॥ यान्ति न्यायप्रवृत्तस्य तिर्यंचोपि सहायताम् ॥ अपन्थानं तु गच्छन्तं सोदरोपि विमुञ्चतीति ॥९॥ तथा स्थैर्वीति ॥ स्थैर्य कार्यारम्भे अनौत्सुक्यं तद्वान् ॥ उत्सुका हि राभस्येन कार्यामारभमाणाः शास्तारमप्युद्वेजयन्ति ॥ यदुक्तम् ॥ अस्थिराः स्वैरिणो नूनं क्षोभयन्ति प्रभूनपि । अचलानाकुलारम्भा युगान्तपर्वता इवेति ॥
तथा धैर्याति ॥ धैर्यमापत्स्वपि मनसोऽक्षोभ्यत्वम् तद्वान् ॥ अधीरो हि विनाकुलितचेता गुरुमपि हीलयति ॥ यदुक्तम् - विघ्नविक्षोभितस्वांतः कदाचिद्धर्मकर्मणि ॥ कातर: सातरसिको गुरुमप्यवमन्यत इति ॥११॥
तथा सद्धर्मार्थीति ॥ सन् शोभनो धर्मो लोकप्रवाहरहितः ॥ आज्ञानुगतः प्रतिश्रोतोपरनामा पारमेश्वरः शुद्धो मार्गस्तस्यार्थी गवेषकः ॥ लोकप्रवाहनिरते हि पुंसि जलभृतकुम्भोपरिपातुकजलबिन्दुरिव गुरूपदेशो बहिर्जुठति ॥ यदुक्तम् ॥ अन्धं प्रति यथा लास्यं गानं च बधिरं प्रति । अनथिनं प्रति व्यर्थं तथा सद्धर्मदेशनम् ॥१२॥
तथा विवेकवानिति ॥ पारिणामिक्या बुद्ध्या युक्तायुक्तविमर्शो विवेकस्तद्वान् ॥ विवेकी हि हेयपरित्यागेनोपादेयमुपादत्ते ॥ तदुक्तम्-हेयं विहाय विरलाः सदसद्विवेकादादेयमत्र समुपाददते पुमांसः ॥ संप्रत्यहो जगति हन्त पिबन्ति नीरात् क्षीरं विविच्य सहसा विहगाः कियन्तः ॥१३॥
तथा सुधीरीति ॥ सुधीः प्राज्ञः ॥ अज्ञे हि वक्तापि गुरुर्न किञ्चित् संस्कार-माधातुमीष्टे ॥ यदुक्तम् ॥ व्याख्याता कं गुणं कुर्याद्विनेये मन्दमेधसि ॥ दुरेधसि शितोप्येति कुठार: कुण्ठतां हठात् ॥१४॥ तदेवं पूर्वोदितसकलगुणगणसंपन्नस्त्वं भोः श्रोतस्ततो मयोपदेशसर्वस्वं श्राव्यसे इति कृतार्थः ॥ इदानीं योग्यश्रोतारं प्रति यद्वक्तव्यं तत्प्रस्तावनामारचयितुं वृत्तद्वयमाह ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org