________________
विभाग-१, बृहद्वृत्तिः
॥ मूल काव्यम् ॥
कल्याणाभिनिवेशवानिति गुणग्राहीति मिथ्यापथ, प्रत्यर्थीति विनीत इत्यऽशठ इत्यौचित्यकारीति च । दाक्षिण्यीति दमीति नीतिभृदिति स्थैर्यीति धैर्यीति सत्, धर्म्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया ॥२॥
टीका:- उच्यसे व्यपदिश्यसे त्वमिति युष्मदा विवक्षित श्रोतृनिर्देशः मयेति कर्त्तुरात्मनिर्देशः ततश्च भो श्रोतर्मया त्वं सङ्घव्यवस्थां प्रतिपाद्यसे इत्यर्थः ॥ कस्मादित्याह ॥ कल्याणाभिनिवेशवानिति ॥ इति शब्दाः सर्वेप्यत्र हेत्वार्थाः ॥ कल्याण: शुभोभिनिवेश आग्रहः सद्ग्रह इत्यर्थः ॥ तद्वान् ॥ यतः सद्ग्राहिणो हि सदुपदेशरत्न श्रवणे परमानन्दः समुल्लसति ।। असद्ग्राही तु तच्छ्रवणेपि कदाहग्रहग्रस्ततया सद्युक्तीरपि स्वमतिकल्पितातात्त्विक वस्तुसमर्थकत्वेन योजयति ॥ यदुक्तम् ॥ आग्रही बत निनीषति युक्ति तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशमिति ॥
९
अथवा कल्याणं मोक्षः तत्राभिनिवेशोऽध्यवसायस्तद्वान् यतो भवाभिनन्दिनां सदुपदेशोपि न चेतसि स्थितिं बध्नाति ॥ यदुक्तम् ॥ कल्याणकाङ्क्षिणां नृणामुपदेशः सुधायते ॥ भवाभिनन्दिनां चित्रं स एव गरलायते ॥
तथा गुणग्राहीति ॥ अल्पीयसोपि गुणस्य ग्रहणप्रवणः ॥ दोषैकग्राहिणो हि अविद्यमानेपि दोषे तद्ग्राहकत्वमेव स्यात् ॥ यदुक्तम् ॥ नात्रातीव विधातव्यं दोषदृष्टिपरं मनः ॥ दोषो ह्यविद्यमानोपि तच्चित्तानां प्रकाशत इति ॥२॥
तथा मिथ्यापथप्रत्यर्थीति ॥ मिथ्यापथो वक्ष्यमाणलक्षणो यथाछन्दप्ररूपितोत्सूत्रमार्गः ॥ तस्य प्रत्यर्थी विरोधी ॥ उत्सूत्रमार्गं श्रोतुमप्यनिच्छुः ॥ उत्सूत्रपथाभिलाषुकस्य हि यथार्थसिद्धान्तोपदेशस्त्रासाय स्यात् ॥ यदुक्तम् || खुद्दमिगाणं पुण सुद्धदेसणा सीहनायसमेति ॥
तथा विनीत इति ॥ गुर्वादिष्वभ्युत्थानादिकरणलालसः ॥ विनीतायैव हि गुरुवः सिद्धान्ततत्त्वं प्रतिपादयन्ति ॥ यदुक्तम् ॥ विणयन्नुयंमि सीसे दिति सुअं सूरिणो किमच्छरियं ॥ को वा न देइ भिक्खं किं पुण सोवन्निए थाले |
दुर्विनीताय पुनर्नकिञ्चिदुपदिशन्ति ॥ यदुक्तम् ॥ सेहंमि दुव्विणीए विणयविहाणं न किञ्चि • आइक्खे ॥ न य दिज्ज आहरणं पलियं चियकन्नहत्थ्थस्स ॥
तथा अशठ इति ॥ ऋजुस्वभावः ॥ गुर्वादिषु जीविकानिरपेक्षप्रवृत्तिरित्यर्थः ॥ शठो हिन विद्यायोग्यः ॥ यतोऽविनीताय लुब्धायाऽनृजवे न मां ब्रूयादिति विद्यैवाहे ति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org