________________
श्री सङ्घपट्टकः ध्यानवन्हिस्तथौर्ववत् ॥४२॥ नीलकुन्तलरोलम्ब पक्ष्मलाक्षिदलामलम् । दन्तद्युतिमधुस्यदि ग्रीवानालोपलक्षितम् ॥८३॥ इन्दीवरश्रियं बिभ्रदपश्यज्जनताननम् । घनमुक्तपयः पूरनिमग्नवपुषः प्रभोः ॥८४॥ युग्मम् ॥ अनणीयोमणीरश्मिकिमीरितककुन्मुखम् । इतश्च नागराजस्य सिंहासनमकम्पत ॥८५॥ वृत्तान्तस्तेन कृत्तान्तःकरणस्थैनसा ततः । प्रयुक्तावधिनाऽबोधि प्रभोः पादप्रसादवत् ॥८६॥ सत्पत्रलकुचारोहास्तिलकानुगतालिकाः । कर्णिकारचितच्छाया स्त्रिमझुलवलीलताः ॥८७॥ वन्यासमाः समादाय देवी: पद्मावतीमुखाः । धरणेन्द्रस्ततो भक्त्या स्वामिनं समुपेयिवान् ॥४८॥ युग्मम् ॥ विभुरीक्षाम्बभूवाथ तेन मध्येजलोच्चयम् । ऊर्मिसंवर्मितः शौरिरन्तéराधिपं यथा ॥८९॥ मणिदीधितिनिद्—तघनसंतमसं ततः । अपारस्फारदुर्वाराम्बुधाराचौरगौरवम् ॥९०॥ आतपत्रं श्रियः सत्रं फुल्लनन्वफणामयम् । भुवनाधिपतेरूओं द्राग् बिभराम्बभूव सः ॥११॥ सोऽधस्तान्नेतुरुद्यामधाम तामरसं मुदा । उन्नालं रचयामास दासवद्वासवोपमः ॥१२॥ अथोपरिफणछत्रवारिताम्बुदविप्लवः । अधोजाम्बूनदाम्भोजन्यस्तशस्तपदः प्रभुः ॥१३॥ प्राग्वत् प्रववृते ध्यातुं डिम्बडम्बरवर्जितः । सर्वावस्थासु साम्यं हि कामं परमयोगिनाम् ॥९४॥ तथापीशे महामर्षप्रकर्ष मेघमालिनम् । मेघमालिनमुद्वीक्ष्य ततोऽवादीदहीश्वरः ॥१५॥ मूढ पापीयसां धुर्य मौले क्षोदीयसां भवान् । जिनेन्द्रेपि किमेतद्भो व्यंजयस्यसमञ्जसम् ॥१६॥ द्विषन्नीशमधस्त्वं भो मापतस्तप्तमानसः । याने वश्ये पयोराशौ को नु निर्लज्ज मज्जति ॥९७॥ अहो कारुणिकायापि जिनायेय॑न्ति बालिशाः । द्विषन्त्यानं प्रदीयांसं करभाः कण्टकाशिनः ॥१७॥ विभुनाज्ञतपोऽसारं तेने तेऽनुजिघृक्षया । न हि जातु सतां वृत्तिः परेषां विप्रलिप्सया ॥१९॥ बालिश त्वादृशा यद्वा हितमप्यऽहितं विदुः । संपद्यते विरहिणां हरिणाङ्कोऽपि दारुणः ॥१००॥ अतत्त्वं तात्त्विकत्वेन चित्रं निश्चिन्वते जडाः । शुक्तिकाशकलं भ्रान्ता मन्वते रजतात्मना ॥१०१॥ एवं कमठजीवः स नागराजेन तर्जितः । अपराद्धेषुवल्लेभे हिया मङ्क्ष विलक्षताम् ॥१०२॥ उपप्लवैरपि ध्यानसम्पल्लम्पटमानसम् । स निष्कंपं जिनं वीक्ष्य निस्तरङ्गपयोधिवत् ॥१०३॥ प्राग्जन्मवैरसंभारवि प्रतिसारभाक् ततः । डमराडम्बरं सद्यः सञ्जहार विशारदः ॥१०४॥ स्वागांसि सम्यगानम्य क्षमयित्वा जिनं ततः । तापस्त्यनेन्द्रियग्रामः स्वकं धाम जगाम सः ॥१०५॥ अथ कृतभयमाथं श्रीजिनं पार्श्वनाथं कमठविजयदक्षं बुद्धसद्ध्यानलक्षम् । मुदितजनसमाजः कीर्तियित्वाहिराजः स्वभवनमुरुशक्तिः प्राप सत्स्वामिभक्तिः ॥१०६॥ इति कथा ॥
तदेवमिष्टदेवतास्तवमभिधायेदानी सङ्घव्यवस्थोपदेशरहस्यं प्रतिपादनीयं तच्च योग्यस्य पुरुषस्य प्रतिपाद्यमानं साफल्यमासादयेत् । अयोग्याय तु दीयमानं प्रत्युतापकाराय स्यात् । यदुक्तम् - अप्रशांतमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥ अतोऽभिधेयमुपक्रममाण उपदेशरहस्यभणनयोग्यं श्रोतारं निरूपयितुमाह ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org