________________
विभाग-१, बृहद्वृत्तिः दूषयितुं कोन्यः प्रभुरस्य तपस्विनः । तृणेढि वियतो बाढं कस्तमस्तपनं विना ॥५२॥ गोत्रभेदाङ्कितः शक्रस्तमसा मलिनःशशी । मन्दः सहसि धर्मांशुः केनोपमिनुमः प्रभुम् ॥५३॥ प्रभुरत्र न चेदेष्यज्जनःप्रतिपदं स्खलन् तदा जात्यन्धवन्मोहादपतिष्यद् भवावटे ॥५४॥ ततो विभोर्गुणस्तोत्रमसहिष्णुः स तापसः । ततो देशादपक्रान्तः प्रकाशादन्धकारवत् ॥५५॥ सदर्कोपि सम्पर्को विभोर्दुःखाय केवलम् । तस्याभवदुलूकस्य प्रकाश इव भास्वतः ॥५६॥ ततः कृत्वा तदज्ञानात् जरठः कमठस्तपः । मेघमालीतिविबुधोऽजनि स्तनितनामसु ॥५७॥ गीयमानो जगन्नाथो गाथकैर्नगरी ततः । विवेश पेशलस्थेम्ना वृत्रहेवा मरावतीम् ॥५८॥ ततो लोकान्तिकैर्देवैः प्रभुरागत्य बोधितः । भगवन्तं स्वयं मुक्त्या वरीतुं प्रहितैरिव ॥५९॥ स्वर्णस्तोमस्य वर्षेण तापनिर्यापणक्षमः । जगत्यास्तर्षमाकर्षन् घनाकृतिरदीक्षत ॥६०॥ अथाश्रमपदोद्याने कदाचिद्विहरन् प्रभुः । तस्थौ मौनं समास्थायज्ञानध्यानैकतानधीः ॥६१॥ स्मृत्वाथ प्राक्तनं वैरमन्वीशं मेघमालिना । अमर्षोन्मीलदुत्तालभालभ्रकुटिशालिना ॥६२॥ प्राग्जन्मनिचितस्वैरवैरनिर्यातनामहम् । विदधामीत्युपत्रष्टुं वक्रत्वेन प्रचक्रमे ॥६३॥ युग्मम् ॥ प्रेडन्निशातविशिखशिखासमनखाङ्करान् । मुखनिर्यद्घनस्वानविदीर्णगिरिकन्दरान् ॥६४॥ दिग्गजैर्योद्धमुत्पित्सूनिव सिंहान् महीयसः । विनिर्ममे जगन्नेतुरुपरिष्टात्स दुष्टधीः ॥६५॥ युग्मम् ॥ अवग्रहं प्रभोस्तेऽथस्प्रष्टुमप्यसहिष्णवः । अभूवन्निष्फला यद्वन्निर्धनानां मनोरथाः ॥६६॥ गण्डस्थलगलद्दाननीरशीकरवधुंकाः । सज्जिताश्चण्डशुण्डाढ्यास्तेन स्तम्बरमास्ततः ॥६७॥ उद्दामानः प्रभौ तेऽपि तेजस्विनि तमोपहे । बभुवुर्मन्दधामानो दीपाः प्राभातिका इव ॥६८॥ इत्यादिभिर्महाभीमैर्डमरैः समरैरिव । अक्षुभ्यति जिने जिष्णौ मेघमालीत्यचिन्तयत् ॥६९॥ कथमेष मया क्षोभ्यो दीप्रो कम्प्रः सुमेरुवत् । आ ज्ञातं सलिलौघेन प्रक्षिपामि सरस्वति ७०॥ कर्णपालीललत्तार-प्राशुतारांशुभासुरा । महद्विस्फूर्जादू स्विबृंहिता गजता यथा ॥७१॥ भिन्ना खनिमणित्विड्भिरञ्जनाचलभूरिव । कुञ्जगुञ्जत्कुरङ्गारि-प्रतिश्रुन्मिश्रिताम्बरा ॥७२॥ अन्तःस्थकालियव्याल-मौलिरत्नांशुकीलिता । कालिन्दीवानिलोदञ्चद्वीचिको लाहलाकुला ॥७३॥ उद्यत्सौदामनीदामकामसंवलितच्छबिः । क्षुभ्यदम्भोनिधिध्वानगम्भीरध्वनिराद्धरा ॥७४॥ आशानितम्बिनीवक्त्रबिम्बनीलाम्बरश्रियम् । संदधानाम्बरं तेन तेने कादम्बिनी ततः ॥७५॥ अस्ततन्द्रास्ततः सान्द्राभगवन्मस्तकोपरि । निपेतुः सलिलासारा नाराचा इव दुःसहाः ॥७६॥ जिनदेहं ततः स्पृष्ट्वा ते लुन्ठन्ति स्म भूतले । अंतःसमुच्चरद्ध्यानमरुता विधुता इव ॥७७॥ नीरन्धं नीरधाराभिः पातुकाभिः समन्ततः । एकार्णवे इवाभूतां युगान्तइव रोदसी ॥७८॥ सोऽभितो जिनमप्यूरोऽभ्रियः क्षीरोदसोदरः । बभार तनुभाभिन्नः कालोदजलधिश्रियम् ॥७९॥ तमालकालजीमूतनिष्ठ्यूतः पयसां रयः । स वरीवृध्ध्यते स्मोज़ भारं भारं भुवं तथा ॥८०॥ यथा भगवतः कंठमारुरोह निरंकुशः । संपद्यतेऽपकाराय नीचगामीझुपेक्षितः ॥८१॥ अमोघः पाथसामोघः समैधिष्ट यथा यथा । इर्ण्ययेव जिनस्यापि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org