________________
श्री सङ्घपट्टकः ज्जगन्नाथस्तपो सिसिषया ततः । मात्रा मित्रैः समं यानमधिरुह्य तदन्तिकम् ॥२३॥ इतश्चानलकुण्डान्तः प्रभुर्गुरुणि । दारुणि मध्ये कोटरमैक्षिष्ट नागं लीनं भयादिव ॥२४॥ प्रभुरूचे वृषायाभूत्तपस्या जापतापस । धर्मव्याजाददः किं भो प्रक्रान्तं पातकं त्वया ॥२५॥ मूलं धर्मस्य कारुण्यं पुण्यं बीजं तरोरिव । ज्वलनज्वालनात्तच्च कुतस्त्यं गृह मुन्नतेः ॥२६॥ चेत् स्वाङ्गस्याभिषङ्गेण श्रेयस्तदभिषज्यताम् तदेव शीतवाताद्यैः किं जन्तुभिरमन्तुभिः ॥२७॥ आयु र्जायुमिवेच्छूनामातुराणां शरीरिणां । धर्मो रक्षैव साधीयान् किमु भो स्तपसामुना ॥२८॥ प्रादुर्भवति न श्रेयो नृणां प्राणिप्रमथनात् । संपादयति नो जातु शिलाशकल मङ्कुरम् ॥२९॥ ___ अलङ्कर्मीणदोःस्तंभ संस्तंभितरिपुद्विपः । निघ्नन्निर्विघ्नराज्यश्रीविना नीतिं यथा नृपः ॥३०॥ चन्द्रमा इव विद्राणतन्द्रिकां चन्द्रिकां विना । न विराजति डिण्डीरपाण्डुराखण्डमण्डलः ॥३१॥ धर्मकर्म तथा नावोद्दामतामसनाशने । बलवत्तुलितोद्गच्छदरुणां करुणां विना ॥३२॥ त्रिभिर्विशेषकम् ॥
प्राणिघातेन चेद् धर्मो धिवराः पीवरा स्तदा । घातुका जन्तुसन्दोहानश्नुवीरन् दिवं शिवम् ॥३३॥ महानुभाव तन्मुञ्च पञ्चवन्हितपोऽधुना । इत्युक्ते जगदीशेन तं ललाप स तापसः ॥३४॥ चातुरी राजबीजि स्ते दण्डनीतिविचारणे । न धर्मग्रन्थच सूज्जृम्भते धी र्भवादृशाम् ॥३५॥ मदुक्तं नान्यथेतीशस्तमवादीत् प्रियंवदः । न चेत्प्रत्येषी तत्पश्य तपसः स्वस्य हास्यताम् ॥३६॥ ततः परशुना नेतान्तर्गतार्होषितोरगम् । द्विधा विधापयामास दारु तस्य तपो ध्रुवम् ॥३७॥ ततः कण्ठोपकण्ठाप्तजीवितः प्लुष्टविग्रहः । दिदृक्षयेव निरगादपकर्तुमहोरगः ॥३८॥ दापिता विभुना पञ्च । परमेष्ठिनमस्कृतिः । करुणातरुणा तस्मै पुंसा नेदीयसा ततः ॥३९॥ लघुकर्मतयैकाग्रस्ततः संज्ञितयाऽनया । श्रवोञ्जलिपुटाभ्यां तामधासीत्स सुधामिव ॥४०॥ तन्महिम्ना स निःसीम्ना विपद्य समपद्यत । भवनाधिपदेवेषु धरण:फणभृत्पतिः ॥४१॥ द्वादशाङ्गीविदोप्येनं निधनानेहसि स्वयं । भव्यान् पञ्चनमस्कारमत एवाध्यजीगपन् ॥४२॥ असावेव चिरोपात्तपापसर्वंकषो नृणां । घनाघना हते कोऽन्यः । प्लोषमोषक्षमो वने ॥४३॥ येऽमुं भव्या अपव्याजं लभन्ते पोतवन्नवलयन्ति भवाम्भोधिं ते गभीरमभीरवः ॥४४॥ पशवोप्येनमासाद्य नाकं साकं महच्छ्रिया । विन्दन्ति कृतसंसारतानवा मानवा इव ॥४५॥ नमत्सुरशिरोमौलिचुम्बिशासनवैभवं भुनक्ति शक्तिमान् प्राज्यस्वाराज्यं यच्छचीपतिः ॥४६॥ दिकूलमुगुजख्यातिस्फातिप्रीणितविष्टपम् । कम्र भारतसाम्राज्यं सार्वभौमः पिपर्ति यत् ॥४७॥ चञ्चच्छायाभृतः पञ्चनमस्कारफलग्रहेः विपक्त्रिमफलस्यास्य फलिका तद्विजृम्भते ॥४८॥ देवभूयङ्गते नागे तद्धाम्नाथ प्रभुं जनाः । नुनुवुः सूक्तिपीयूषस्यन्दिनो बन्दिनो जनाः ॥४९॥ कोन्यः संवेदमेदस्वी भगवन्तं विनात्र यत् । ऐक्षताप्रत्यक्षमप्येनमन्तारूरगं विभुम् ॥५०॥ कस्यापरस्य कारुण्यभरमन्थरतारकाः । निपतन्ति दृशः प्रेष्ठः क्षोदिष्टेष्वपि जन्तुषु ॥५१॥ तपो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org