________________
विभाग- १, , बृहद्वृत्तिः
विधेयमिति ॥ किन्तुज्ञानबलाऽवसितकमठविधास्यमानाविरलजलधरपटलविगलत्सलिलधारासंपातादिस्वापायाभ्युपगमेनापि कमठतपसो दुष्टत्वं स्पष्टयताऽर्थादेव तत् प्रत्यादि ॥ यन्मद्वद् भवद्भिरपि कुमार्गस्खलनं स्वापायाङ्गीकारेणापि कार्यम् ॥
स्वामिचरितानुसारित्वादनुजीविचरितस्येत्युत्प्रेक्षाद्योतकेवशब्दसूचितवृत्ततात्पर्यार्थः ॥ अत एवात्र प्रकरणकारेणापि विपक्षदुः सङ्घदोषख्यापनपुरःसरं स्वपक्षसुसङ्घव्यवस्था प्रदर्शनेन स्ववैधुर्यं संभावयता स्वव्यसनाभ्युपगमपूर्वककुमार्गविध्वंसनविधातुर्जिनस्य नमस्कारः कृत औचित्यप्रतिपादनायेति ॥
I
1
अस्मिन्नेवार्थे सम्प्रति वृद्धसम्प्रदायोऽभिधीयते । आस्ते सुरचितावासा पवित्रवृषशालिनी । उपगङ्गं सुरागाराकारा वाराणसीपुरी ॥१॥ अभूत्तस्यां महाकूटक्षोणीभृत्पक्षतक्षणः । अश्वसेनः सुधर्मास्थः पृथ्वीपालो यथा वृषा ॥२॥ वामा तस्य महादेवी रुचिताखण्डलक्षणा । शचीव सुमन:पूज्या कुसङ्ग - विकलाऽजनि ॥३॥ जयन्त इव नासत्यभृत्तयोरङ्गभूरभूत् । जिनः पार्श्वस्त्रयोविंशो विबुधाराधितक्रमः ||४|| उपेयिवान् कुमारत्वं ततः शक्तििहताहितः । स भवानीहितस्वान्तो गमयामास वासरान् ॥५॥ तप्यमानोऽन्यदा पञ्चपावकं दुस्तपं तपः । जगत्प्रभुं प्रति प्राच्यजन्मसंभृतविग्रहः ||६|| उर्वीमुर्वी परिभ्राम्यन् कर्मठ्ठः कमठः शठः । तप्यसुर्बहिरुद्याने तां पुरं प्राप तापसः ॥७॥ युग्मम् ॥ अथाशास्वग्निकुण्डानि स चतसृष्वचीखनत् । गतिस्थानानि चत्वारि स्ववासाये व शाश्वतम् ॥८॥ दिदीपिरे ऽनलास्तेषु चारुदारुनिवेशतः । जङ्घालज्वालजटिलास्तत्कषाया इवोच्छ्रिताः ॥९॥ तदन्तःस्थः स्वमूर्धोर्ध्वचण्डमार्तण्डमण्डलः । चकासे नूनमायास्यन् महानरकमध्यगः ॥१०॥ कृशानुभानुसन्तापं सहिष्णो रथ दारुणं । पारणां विदधानस्य स्वयं शीर्णैः फलै र्दलैः ॥ ११ ॥ समाहृतपद स्तस्य स्तंभस्येवोर्ध्वतस्थुषः अयमेव तपस्वीति प्रससार यशः पुरि । युग्मम् ॥ १२ ॥ गतानुगतिकत्वेन निर्विवेकतयानया । निरीक्षितुं तमाकाङ्क्षन् पौरा गौरवतं स्ततः ॥ १३॥ क्लृप्तसंवनना नूनं गन्तुमारेभिरेऽथ ते । चिरनंष्टस्य सौजन्यसिन्धोर्बन्धो रिवागमे ॥१४॥ निरङ्कुशं विनिर्यद्धि नगरैः सागरैरिव । राजमार्गाः प्रथीयांसो भूयांसोपि घनीकृताः ॥ १५ ॥ सुपर्वनिलये सौधे जातरूपमहीभृति । इतः सिंहासनासीनो भगवान् विबुधाधिपः ॥ १६ ॥ यान्तमेकाशया लोकमवलोक्य विदन्नपि । असावेति जनःक्वेति पप्रच्छानुचरं जनम् ॥१७॥ पञ्चवह्नितपस्वीह समायातोऽस्त्वतो जनः वन्दितुं तं प्रयातीति कुमारं स व्यजिज्ञपत् ॥ १८ ॥ अथोवाच प्रभुश्चित्रं विपर्यस्तधियोऽधमाः । मोहांधत्वात् स्वयं नष्टा नाशयत्यपरानपि ॥ १९ ॥ उपादेयतया हेयमवस्यन्त्यबुधा अहो । सुखं हि मन्वते मुग्धाः कामिनी पादताडनम् ॥२०॥ जन्युमन्युकृता धर्मः पञ्चाग्नितपसा यदि । स्यान्नश्येत् तृष्णजः तृष्णा मृगतृष्णाम्भसा तदा ॥२१॥ बोधयामि ततो गत्वा दुर्मेधसमिमं जनम् । प्रलभ्यमानमेतेन बालवद्भिक्षुणा ततः ॥ २२॥ उक्त्वागम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org