________________
श्री सङ्घपट्टकः ज्ञापयता ज्ञापित एवास्योपायोपेयभावलक्षणः सम्बन्धः ॥ तथाहीदं प्रकरणं व्यवस्थितसङ्घव्यवस्थाधिगमोपायः उपेयं च तदधिगम इति ॥ यद्वा द्वितीयवृत्तवर्तिना “सुधीरित्युच्यसेत्वंमये" त्यनेनाभिधेयस्य तदविनाभावेन च प्रयोजनसम्बन्धयोः स्वयमेव प्रकरणकृता प्रतिपादनात् नानर्थकता प्रकरणस्येति ॥
अथ वृत्तव्याख्या ॥ स्तुमःप्रणुमः अस्मद्यप्रयुज्यमानेप्युत्तमपुरुषप्रयोगप्रतिपादनाद्वयमितिकर्तृपदं स्वयमिह योज्यम् ॥ कं देवं दिवः स्तुत्यर्थस्यापि भावात् दीव्यते स्तूयते शक्रादिभिरिति देवः ॥ स चात्र प्रकरणादाविष्टदेवतात्वेनस्तवाहत्वाज्जिनः ॥ सोपीह कमठतपोदुष्टतास्पष्टनलक्षणासाधारणविशेषणयोगात्पार्श्वनाथस्तं देवं स्तुमः ॥ यो जगादेव प्रतिपादयामासेव ॥ इवशब्दोत्रोत्प्रेक्षाद्योतकः ॥ किम् इति ॥ इति शब्दः कर्मस्वरूपप्रतिपादनार्थः तेन इति एतत् ॥ एतदेवाह ॥ विधुरमपि किल स्वस्य सद्यः प्रपद्य प्राज्ञैः कार्य कुमार्गस्खलनमिति ॥ प्राज्ञैः प्रज्ञावद्भिः कार्यं विधेयं किं कुमार्गस्खलनं सर्वसामर्थ्येन पूर्वापराऽविसंवादिशास्त्रविरुद्धमतनिराकरणम् ॥ किं कृत्वा प्रपद्य स्वीकृत्य किं विधुरमपि व्यसनमपि ॥ अपिः सम्भावने एतत् सम्भावयति ॥ दुष्करमपि स्ववैधुर्यस्वीकरणमैकभविकम् ॥ सति सामर्थ्य स्वापायशङ्कया कुपथस्खलनावधीरणं त्वनन्तजन्तुसंसारकारणत्वेन महतेऽनयेति ॥ कस्य विधुरम् ॥ स्वस्यात्मनः कथं सद्यस्तत्क्षणात् ॥ किलेत्याप्तवादे ॥ आप्ता एवमाहुरिति कस्मादेवं जगादेवेत्यत आह ॥ कारुण्यामृताब्धिः कथमयं जनो मया कुमार्गपङ्का दुद्धरणीय इति कृपापीयूषसागरो भगवान् ॥ न हि लोकानुकम्पा मन्तरेण कश्चित् स्ववैधुर्याङ्गीकारेण कुमार्ग प्रतिहन्तीति । किं कुर्वाण एवं जगादेवेत्यत आह स्पष्टयन् प्रकटीकुर्वन् ॥ किं कमठमुनितपः कमठाभिधानलौकिकतपस्विनः पञ्चाग्निरूपकष्टानुष्ठानम् ॥ जनु कमठतपो लोके स्पष्टमेव किं तत्स्पष्टनेनेत्यत आह ॥ दुष्टं प्राणिवधमुग्धप्रतारणलाभपूजाख्यातिकामनादिदोषकलापयुक्तम् ॥ अत्र च विशेषणे तात्पर्य ॥ सविशेषणे हि विधिनिषेधौ विशेष्यमुपसङ्क्रामत इतिन्यायात् ॥ तेनदुष्टत्त्वेनख्यापयन्निति दुष्टत्वमत्र तपसो. विधेयम् ॥ कथं दुष्टं उच्चैरतिशयेन किं कृत्वा स्पष्टयन् संदर्घ्य दर्शयित्वा कं नागं पञ्चाग्नितपोनिमित्तज्वलितज्वलनकुण्डान्तर्वतित्वाद् दारुकोटरमध्यगं भुजङ्गम् ॥
किंविशिष्टं नागं वन्हिज्वालावलीढम् ॥ निरन्तरं प्रज्वलच्छिखिशिखाकवलितम् ॥ अर्धदग्धमिति यावत् ॥ क्व अग्रे पुरतः कस्याः मातुर्वामाभिधाया महादेव्याः स्वजनन्याः ॥ न केवलमातुस्तथाऽस्तोकलोकस्य कौतूहलादिमिलितसकलजनतायाः ॥
अथ कस्मात् सकलजनमध्ये भगवान् तत्तपस्तिरश्चकार ॥ यतः कुपथमथन धीः॥ असन्मार्गोच्छेदप्रवीणबुद्धिमान् ॥ न हि तत्तपोदोषापादनं विना कुमार्गोच्छेदं कर्तुं शक्यः ॥ एतदुक्तं भवति ॥ नहि भगवता तत् साक्षादभिहितं प्रेक्षावतां यदुत भवद्भिः कुमार्गस्खलनं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org