________________
विभाग-१, बृहद्वृत्तिः
माणहृदयभूमिनिहितचेतनाबीजमुदग्रदुर्निग्रहकुग्रहावग्रहशोशुष्यमाणविवेकाङ्कुरं
३
निरर्गल
मुखकुहरनिःसरदुर्वाणीकृपाणीकृत्तधार्मिकमम्र्म्माणं श्राद्धसङ्घं निरीक्ष्य ॥ तदुपचिकीर्षया - हृद्यानवद्यसमग्रविद्यानितम्बिनीचुम्बितवदनतामरसः सान्द्रसंवेगशास्त्रार्थरसायनपानवान्तकामरसः || सुविहितमुनिचक्रवालशिखामणिः सिद्धान्तविपर्यस्तप्ररूपणमहान्धकारनिकारतरणिः सुगृहीतनामधेयः प्रणतप्राणिसन्दोहवितीर्णशुभभागधेयः ॥ चैत्यवासदोषभासनसिद्धान्ताकर्णनापासितकृतचतुर्गतिसंसारायासजिनभवनवासः ॥ सर्वज्ञशासनोत्तमाङ्गस्थानादिनवाङ्गवृत्तिकृच्छ्रीमदभयदेवसूरिपादसरोजमूले गृहीतचारित्रोपसंपत्तिः ॥ करुणासुधा
तरङ्गिणीतरङ्गरङ्गस्वांतःसुविधिमार्गावभासनप्रादुःषद्विशदकीर्तिकौमुदीनिषूदितदिक्सीमन्तिनीवदनध्वान्तः ॥ स्वस्योपसर्गमभ्युपगम्यापि विदुषा दुरध्वविध्वंसनमेवाधेयमिति सत्पुरुषपदवी - मदवीयसीं विदधानः समुज्झितभूरिर्भगवान् श्रीजिनवल्लभसूरिः ॥ मोहान्धतमसध्वंसनपटिष्ठसत्पथप्रकाशनगरिष्ठरत्नदीपायमानं दुर्वासनाशिलासञ्चयकुट्टाकं श्रीसङ्घपट्टकाख्यं प्रकरणं चिकीर्षुर्निखिलप्रत्यूहव्यूहव्यपोहायादावमुमिष्टदेवतानमस्कारमाविश्चकार ॥
॥ मूल काव्यम् ॥
वन्हि ज्वालावलीढं कुपथमथनधी मतु रस्तोकलोक, स्याग्रे संदर्श्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः । यःकारुण्यामृताब्धिर्विधुरमपि किल स्वस्य सद्यः प्रपद्य,
प्राज्ञैः कार्यं कुमार्गस्खलनमिति जगादेव देवं स्तुमस्तम् ॥१॥ टीका:- अथ सङ्घपट्टक इति कः शब्दार्थः ॥
॥ उच्यते ॥ सङ्घस्य ज्ञानादिगुणसमुदायरूपस्य साध्वादेश्चतुर्विधस्य पट्टकः व्यवस्था -. पत्रम् ॥ यथा राजादयः स्वनियोगिभ्यो व्यवस्थापत्रं प्रयच्छन्त्यऽनया व्यवस्थया युष्माभि र्व्यवहर्त्तव्यमिति - एवमिहापि साक्षाद्विपक्षदुः सङ्घदोषदर्शनद्वारेण स्वपक्षसुसङ्घस्य व्यवस्था वक्ष्यमाणा दर्श्यते इति भवति सङ्घपट्टकः ॥
तथाप्यभिधेयादित्रयवैकल्यादिदमनर्थकमिति चेत्तन्न || प्रतिपादितसङ्घपट्टकशब्दार्थविवेचनेन त्रयस्याप्याक्षेपात् ॥ तथाहि प्रकरणाभिधानार्थपर्यालोचनयौद्देशिकभोजनादिदोषदर्शनद्वारेण तत्परिहाररूपा व्यवस्थाऽत्राभिधेयेति गम्यते ॥ प्रयोजनाविनाभावाच्चाभिधेयस्य, तदाक्षेपेण प्रयोजनमप्याक्षिप्तम् ॥ न हि निःप्रयोजनस्य पदार्थस्याभिधानाय सतः प्रवर्तन्ते तत्त्वहानि प्रसङ्गात् ॥ तच्च द्विविधमनन्तरं परम्परं च ॥ पुन स्तदपि कर्तृश्रोतृभेदाद् द्विविधम् ॥ तत्र कर्तुरनन्तरप्रयोजनं विनेयानां सङ्घव्यवस्थाधिगमकरणं श्रोतुश्चानन्तरं सङ्घव्यवस्थाधिगमः परम्परं तु द्वयोरपि परमपदप्राप्तिः ॥ तथाऽस्य प्रकरणस्येदमभिधेयमिति
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org