________________
॥ श्री वीतरागाय नमः ॥ पू.आ.श्री.जिनवल्लभसूरिविरचितपू.आ.श्री जिनपतिसूरिकृतबृहत्वृत्ति समलङ्कृतः
॥श्री सङ्घपट्टकः ॥
यस्यान्तःसभमायतांसलभुजाःतन्वश्चतस्त्रः समम्, भान्ति स्म च्युततांतिकान्तिलहरीलोलत्रिलोकश्रियः । शङ्के वल्गदुदग्रविग्रहभवोपग्राहिकर्मद्विषा, मास्यूता विजिगीषया भगवता पायात् स वीरो जिनः ॥१॥ क्वेमाः श्री जिनवल्लभस्य सुगुरोः सूक्ष्मार्थसारागिरः, क्वाहं तद्विवृत्तौक्षमः क्लमजुषां दुर्मेधसामग्रणीः । द्विदन्तद्विपदन्तभञ्जनभुजस्तंभै जयश्री: क्वनु प्राप्यासङ्गरमूर्धनि व्यवसितः क्लीब:क्व तल्लिप्सया ॥२॥ तथापि तस्यैव पदप्रसादःफलिष्यति द्राक् मम निर्विवादः ।
किमङ्गपङ्गोर्भवनाङ्गणस्पृक्कल्पद्रुमःपूरयते न कामान् ॥३॥ टीकाः-इह हि सदृशां पदार्थसार्थप्रकटनपटीयसि समूलकाषंकषितनिःशेषदोषे निर्वाणचरमशिखरीशिखरमधिरूढे भगवति भास्वति श्रीमहावीरे ॥ तदनु दुःषमासमयभविष्णुदशमाश्चर्यमहादोषान्धकारोदयात्तनिमानमासादयति जिनराजमार्गे ॥ मन्दायमानेषु सदृष्टिषु सात्त्विकेषु सत्त्वेषु प्रोज्जृम्भमाणेषु सदालोकबाह्येषु तामसेषु ॥ निरङ्कशमत्तमतंगजवद्यथेच्छं गर्जत् सञ्चरिष्णुषु प्रमादमदिरामदावदायमानानवद्यविद्यासंपत्तिषु सातशीलतया स्वकपोलकल्पनाशिल्पिकल्पितजिनभवननिवासेषु ॥ चौलुक्यवंशमुक्तामाणिक्यचारुतत्त्वविचारचातुरीधुरीणविलसदङ्गरङ्गनृत्यन्नीत्यङ्गनारञ्जितजगज्जनसमाजश्रीदुर्लभराजमहाराजसभायाम् ॥ अनल्पजल्पजलधिसमुच्छलदतुच्छविकल्पकल्लोलमालाकवलितबहलप्रतिवादिकोविदग्रामण्या संविग्नमुनिनिवहानण्या सुविहितवसतिपथप्रथनरविणा वादिकेसरिणा श्रीजिनेश्वरसूरिणा ॥ श्रुतयुक्तिभि बहुधा चैत्यवासव्यवस्थापनं प्रति प्रतिक्षिप्तेष्वपिलाम्पटयाभिनेवेशाभ्यां तन्निबंधमजहत्सु यथाच्छंदेषु ॥ ततस्तदुत्सूत्रदेशनाविरलगरललहरीचरीकृष्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org