________________
७८
श्री सङ्घपट्टकः यदाह ॥ इह सुद्धबुद्धिजोगा काले संपूइऊण कत्तारं ॥ विभवोचियमप्पिज्जा मूलं अणहस्स सुहभावो॥
तदेवं जिनबिम्बे विधिना निर्मापिते प्रतिष्ठापिते चायं पूजनविधिः ॥ सन्ध्यात्रये विधिना शुचिर्भूत्वा भगवद्विम्बं श्रद्धावान् पुष्पादिभिरर्चयति ॥ तदुक्तम् ॥ काले सुइ भूएणं विसिट्ठपुप्फाइएहिं विहिणाउ ॥ सारथुइथुत्तगरुई जिणपूआ होइ कायव्वा ॥
तथा च तत्र च कल्याणकादिदिनेषु यात्रा प्रस्तूयते ॥ तत्र चायं विधिः ॥ यथाशक्तिदानतपश्चरणशरीरविभूषाजिनगुणगानवादित्रादिकरणम् ॥ यदाह ॥ दाणं तवोवहाणं सरीरसक्कारमो जहासत्तिं ॥ उचियं च गीयवाइयथुइथुत्तापि च्छणाइंय ।।
तथा दर्शनतपसी पूर्वं व्याख्याते व्रतानि स्थूलप्राणातिपातविरमणादीनि ॥ आदिशब्दाद्विचित्राभिग्रहग्रहः ॥ ततो दानं चेत्यादिद्वन्द्वः ॥ तथा गुरोर्धर्माचार्यस्य भक्तिः शुश्रूषा आगच्छदभिमुखगमनोत्थिताभ्युत्थानगच्छदनुगमनिश्रामणा विशुद्धभक्तपानादिदानचित्तानुरञ्जनादिका ॥
यदुक्तम् ॥ अहवा वि गुरु समत्तदायगा ताण होइ सुस्सूसाई ताणभिमुहगमणं उत्थाणं उत्थिएसुंच ॥ विस्सामणाइ सम्मं वियाणणुव्वयणमेव जं ताणं ॥ संपाडणमेयाणंसमिच्छियाणं विसुद्धाणं ॥ भावाणुवजणं तह सव्वपयत्तेण ताण कायव्वं सम्मत्तदायगाण दुप्पड़ियारं जओ भणियं ॥ श्रुतपठनं सिद्धान्ताध्ययनम् ॥ आदिग्रहणात्तदर्थश्रवणमननादिग्रहः ॥ एतच्च विवेकिना विशेषेण विधेयमेतत्पुरस्सरत्वात् सकलप्रागुक्तजिनगृहादि-करणविधिप्रतिपत्तेः ॥ यदाह । अन्नेसि पवित्तीए निंबधणं होइ विहिसमारम्भो सासुत्ताओ नज्जइ ता तं पंढमं पढेयव्वं ॥ सुत्ता अत्थे जत्तो अहिगयरो नवरि होइ कायव्वो ॥ इत्तो उभयविसुद्धत्ति सूयगं केवलं सुत्तत्ति ॥
एतदन्तरेणसमस्तस्यापि क्रियाकलापस्यान्धमूकसाम्यापत्तेः ॥ ततो गुरु भक्तिश्चेत्यादि द्वन्द्वः ॥ वा समुच्चये ॥ आदृतं सबहुमानं नत्ववहेलया ॥ एतत्सकलं जिनगृहादिदानादिगुरुभक्त्याद्यनुष्ठानं किमित्याह ॥ स्याद्भवेत् इह प्रवचने अनभिमतकारीतिसम्बन्धः ॥ कस्मादत आह ॥ कुमतेत्यादि । तत्र कुमतं परतीर्थिकसमयाभिहितं क्रियाकदंबकं श्राद्धचन्द्रसूर्योपरागसङ्क्रान्तिमाघमालाप्रपादानादि ॥
कुगुरुरुत्सूत्रदेशनाकरणप्रवणः सन्मार्गदूषणपरायणो धार्मिकजनक्षुद्रोपद्रवतत्परः सुखलोलतयायतिक्रियाविकलो जनविप्रलिप्सयादुष्करक्रियानिष्ठोपि वा लाभपूजाख्यातिकामः कुत्सितआचार्यः ॥ कुग्राहः सिद्धान्तबाह्यस्वमतिकल्पितस्वाभ्युपेतासत्पदार्थसमर्थनानुष्ठानगोचरो मानसोभिनिवेशः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org