SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ७७ विभाग-१, बृहद्वृत्तिः तदुक्तम् ॥ रात्रिस्नात्रविधापनादिभिरहो संसारपल्ल्यां हठात्पार्श्वस्थादि मलिम्लुचैर्बलितया द्राग्नीयमानं जनम् ॥ दृष्ट्वा सम्प्रति शुद्धदेशनामिषाद्ये पूत्कृतिं कुर्वते, धन्यैस्तैः शितधाम धामविशदं जैनं मतं भूषितम् ॥ इदमुक्तं भवति ॥ जिनाज्ञापि तपः प्रभृतिका आपवादिकाधाकर्मभोजनादिका वा यदा अविधिना विधीयमाना भवफला तदा किंपुनरस्यापि विडम्बनायाः सर्वथा जिनवचन बाह्याया रात्रिमज्जनादिकाया वक्तव्यम् ॥ सुतरामेषा भवहेतुरेव ॥ अतोऽहितहेतुत्वेन प्रत्याख्यापते ये न सा तथा प्रत्याख्याप्यमाना कस्यापि पुण्यात्मनः स्वतो निवर्त्तनाय प्रभवतीतिवृत्तार्थः ॥१९॥ इदानीं निर्वाणकारणमपि निसर्गेण जिनगृहादिनिर्मापणं गृहिणःकुमतादिलेशस्याप्यनुवेधाद्भवहेतवे भवतीत्येतत्प्रदर्शनायाह ॥ . ॥ मूलकाव्यम् ॥ जिनगृहजिनबिम्बजिनपूजनजिनयात्रादिविधिकृतम्, दानतपोव्रतादिगुरुभक्तिश्रुतपठनादि चादृतम् । स्यादिह कुमतकुगुरुकुग्राहकुबोधकुदेशनांशतः, स्फुटमनभिमतकारि वरभोजनमिव विषलवनिवेशतः ॥२०॥ टीका:-जिनगृहं परमेश्वरभवनं जैनबिम्बं भागवती प्रतिमा जिनपूजनं भगवत्प्रतिमायाः कुसुमादिभिरभ्यर्चनं जिनयात्रा जिनान्प्रतीत्याष्टाह्निकाकल्याणकरथनिष्क्रमणादिमहामहकरणम् ॥ ___. यदुक्तम् ॥ जत्तामहूसवोखलु, उद्दिस्सजिणे स कीरई जोउ ॥ सो जिणजत्ता भन्नइ तीएविहाणं उ दाणाइ ॥ ततो जिनगृहं चेत्यादिद्वन्दगर्भोबहुव्रीहिरेवमुतरपद्ययोरपि ॥ आदि ग्रहणाज्जिनवन्दनप्रतिष्ठादिग्रहः इह चासकृज्जिनपदोपादानं भगवतोऽत्यंतभक्तिगोचरतया तदुद्देशेन विधिना गृहादिनिर्मापणस्य परममुक्त्यङ्गत्वख्यापनार्थम् ॥ एवमादि धर्मकर्मजात-मितिशेषः ॥ विधिना श्रुतोक्तेन प्रकारेण कृतं निर्मापितम् ॥ तथाहि ॥ जिनगृहनिर्मापणविधिः शुद्धभूमिपरिग्रहादिकः ॥ यदुक्तम् ॥ जिणभवणकारणविही सुद्धा भूमिदलं च कट्ठाइ । भियगाणइसंधाणं लासयवुड्डीय जयणाए । तद्विधापनानन्तरं चैतस्मिन्नपिशिलापित्तलादिघटितप्रतिरूपके सम्प्रतिभगवद्विरहे तद्गुणानध्यारोप्य तं पूजयामीति प्रणिधानेन श्राद्धस्य भगवद्विम्बनिर्मापणम् ॥ तन्निर्मापणे • विधिरयं सूत्रधारस्य दानादिसन्मानपूर्वविभवौचित्येन घटितबिम्बमूल्यसमर्पणम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy