________________
७६
श्री सङ्घपट्टकः ॥ मूलकाव्यम् ॥ जिनमतविमुखविहितमहिताय न मज्जनमेव केवलम्, किन्तु तपश्चरित्रदानाद्यपि जनयति न खलु शिवफलम् ।
अविधिविधिक्रमाज्जिनाज्ञापिाशुभशुभाय जायते,
किंपुनरितिविडम्बनैर्वाहितहेतु र्न प्रतायते ॥१९॥ टीका:-जिनमतविमुखविहितं भगवदागमवैपरीत्यनिर्मितं मज्जनमेव स्नपनमेव केवलमेकम् अहिताय संसाराय न भवति स्नानमेवैकमविधिविहितं संसारकारणमिति नास्ति किन्तु किन्तर्हि तप्यन्ते धातवोऽशुभं कर्माणि वानेनेति तपोऽनशनादि ॥ .
यदुक्तम् ॥ मज्जास्थिरुधिरपलरसमेदःशुक्राण्यनेन तप्यन्ते ॥ कर्माणि चा शुभानीत्यतस्तपो नाम नैरुक्तम् ॥ तथा चारित्रं सर्वविरति: दानं पात्रेषु न्यायार्जितशुद्धभक्तादिवितरणम् ॥ आदिशब्दाद्विनयवैयावृत्यादिग्रहः ॥ ततस्तपश्चेत्यादि द्वन्द्वगर्भो बहुव्रीहिः ॥ ततश्चैवमाद्यप्यनुष्ठानं जिनमतवैपरीत्यविहितं न केवलं मज्जनमित्यपि शब्दार्थः ॥ न खलु नैव जनयति सम्पादयति शिवफलं मुक्तिरुपं फलम् ॥ ___ अथ कस्मादेवमित्यत आह ॥ ही यस्मात् अविधिविधिक्रमात् सिद्धान्तानुक्ततदुक्तप्रकारेण जिनाज्ञापि भगवच्छासनोक्तानुष्ठानमपि अशुभशुभाय अश्रेयः श्रेयसे ॥ द्वन्द्वैकवद्भावादत्रैकवचनम् ॥ जायते सम्पद्यते ॥ यथासंख्येनात्र योजना ॥ तेनायमर्थः ॥ किल जिन पूजातपःप्रभृतिप्रवचनप्रसिद्धं जिनाज्ञा ॥ भगवता निःश्रेयससाधनत्वेन ज्ञापितत्वात् ॥ तथा च तदप्यविधिक्रमेण कालेसुइभूएणमित्याधुक्तविधिविपर्ययेणक्रियमाणमशुभाय भवति ॥ विधिक्रमेण तु सन्ध्यात्रयाराधनशुचिभूतत्वादिना तदेव शुभाय ॥ विध्यविधिभ्यांभगवदाज्ञाराधनानाराधनयोरेव मोक्षसंसारफलत्वात् ॥ ___ यदाह ॥ जहचेवउमोक्खफला आणा आराहियाजिणिंदाणं ॥ संसारदुखफलया, तहचेव विरहिया होइ॥
अथवा जिनाज्ञापवादिकी आधाकर्मभोजनादिका क्रिया ॥ साप्यविधिक्रमेण संस्तरणादौ तद्ग्रहणादिना अशुभाय विधिक्रमेण वाऽसंस्तरणादौ तद्ग्रहणादिना शुभायेति ॥ किंपुनरित्यादिवाक्यं काक्वायोज्यम् ॥ अत्र च किमित्याक्षेपे पुनरपि वाक्यभेदे इति प्रकरणे ॥ तेनैषां प्रकृता रात्रिजिनमज्जनादिका क्रिया विडम्बनैव प्रवचनापभ्राजनैव लोकोपहासास्पदम् ॥ नत्वेषा जिनाज्ञापीत्येवकारार्थः ॥
अहितहेतुः संसारनिबन्धनं न प्रतायते न विस्तार्यते ॥ किन्त्वहितहेतुत्वेन प्रत्याख्यान एव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org