SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ विभाग-१, बृहद्वृत्तिः जन्तूनां व्यापत्तिनिमित्तभावान् कीदृशी दीक्षादातृगृहीत्रोः सर्वविरतिः ॥ तथा च करेमिभंतेसामाइयमित्यादि सर्वविरतिसामायिकसूत्रस्यापि तत्क्षणं शिष्येणोच्चार्यमाणस्य वैयर्थ्यप्रसङ्गः ॥ शिष्यस्य दीक्षाप्रथमक्षणादारभ्यप्राणातिपातप्रवृत्तेः ॥ तदुक्तम् ॥ सव्वं ति भाणिऊणं, विरई खलु जस्स सव्विया नत्थि || सो सव्वविरइवाइ चुक्कड़ देसं च सव्वं च ॥ दीक्षादातुश्च दोषसङ्ख्यापि वक्तुं न शक्यते ॥ तद्दिक्षया तावज्जन्तुजातव्याघातप्रवृत्तेः ॥ तदहोमूढा एतावन्तं पापकलापमात्मन्यारोपयन्तो भाविभवभ्रमणान्मनागवि न बिभ्यतीति ॥ ७५ तदुक्तम् ॥ ज्योतिर्ज्योतितकृत्स्नदेवसदनप्रायः प्रदीपोच्चरद्दीपाच्चिर्निकुरम्बचुम्बनभवत्तङ्गत्पत्तङ्गैषणां ॥ निस्त्रिंशा निशि सूत्रयन्ति कुधियो मुग्धा मुधामी हहा नन्दिसन्दितिसम्मितां स्वपरयोः संसारकारागृहे ॥ अह्नि दीक्षादिलग्नबलाभावे रात्रौ च तद्भावे विहारक्रमवदपवादेन कदाचिद्रात्रावपि नंदि विदधतां को दोष इतिचेन्न । विहारक्रमस्यापवादेन रात्रावपि प्रतिपादनात्तत्र कदाचित्तत्करणंयुक्तम् ॥ नन्दिविधानस्य चापवादेनाप्यागमे रात्रावनभिधानात्कथं तद्विधानं तत्र सङ्गच्छेत ॥ किञ्चापवादिककृत्यानां रात्रिविहारक्रमादीनां सर्वेषां प्रायश्चित्तमभिहितमागमे ॥ न च निशि नन्दिविधानस्य भवन्नीत्यापवादिकस्यापि क्वचित्तदभिधानं श्रूयते ॥ ततोवगम्यतेनास्त्यपवादेनापि रजन्यां नन्दिविधानम् ॥ तथा भगवद्ज्ञातादपि रात्रो तद्विधानमसमीचीनम् ॥ भगवता हि विमलकेवलालोकेनापि तावतां विनेयलक्षाणां मध्यात्कस्यचिदपि क्षणदायामदीक्षणात् ॥ दिवसाइयं तित्थंदिणं पसत्थं चेत्याद्यागमवचनप्रामाण्यात् ॥ तत्पथवर्त्तित्वाच्च तद्विनेयानामैदंयुगीनानां कथं निशि तत्कर्तुं युज्यत इति ॥ एवं निशि जिनप्रतिमाप्रतिष्ठायामपि सकलमेतद्दूषणजातं विविच्य वाच्यम् ॥ तदुक्तम् ॥ प्रादुःषद्दोषपोषायां, दोषायां साधयन्ति ये ॥ जिनबिम्बप्रतिष्ठां ते, प्रतिष्ठां स्वस्य दुर्गतौ ॥ तदेवं दोषकलापदर्शनाद् रात्रौ मज्जनादिविधायिनां पापपङ्के निमज्जनं भवतीति व्यवस्थितम् ॥ इदं वक्ष्यमाणं च वृत्तद्वयं द्विपदी छन्द इति वृत्तार्थः ॥ १८ ॥ साम्प्रतं प्रसङ्गेन मज्जनादन्यस्यापि धर्मकृत्यस्य विधिरहितस्य संसारनिमित्तत्वं प्रकटयन्नाह ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004215
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSamyag Gyan Pracharak Mandal
Publication Year2012
Total Pages262
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy