________________
७४
श्री सङ्घपट्टकः
कति बलिना लिना जितास्ते, नूनं शुभेन तलिना मलिना अघेन ॥
तथा लोकविरुद्धोपि अहो अमी श्रावकाः स्वयं रात्रिभोजननिषेधेपि स्वदेवस्य पुरतो निशि बलिमुपढौकयन्तत्यतः कीदृगमीषां रात्रिभोजनविरतिरितिसोत्प्रासलोकवाक्यश्रवणात् ॥ आगमेपिभगवत्पुरतोब्यारव्यानावसाने समवसरणभुवि राजादिभिः सिद्धस्य सिक्थरूपस्य कलमतंडुलबलेर्दिवस एवोपढौकनप्रतिपादनात् ॥
यदाह ।। राया व रायमच्चो, तस्सासइ पउरजणवओ वालि ।। दुब्बहिलखंडिअबलिछडियतण्डुलाणाढयंकलमं ॥ भाइयपुणाणियाणं अखंडफुडियाण फलगसरियाण | कीरइबलीसुराविय, तत्थेव छुहंति गंधाइ ॥
देवार्च्चनत्वात् बलिदानं रात्रावप्युचितं तथाच किमायातं लोकविरोधस्येतिचेत् न ॥ देवार्चनस्यापि रात्रौ सिद्धान्ते निषेधात् महिमं च सूरुग्गमणे करितीत्यावश्यकचूर्णिवचनप्रामाण्यात् ॥
लौकिकमार्गेपि रात्रौ स्नात्रदेवार्चनादे र्निवारणात् ॥ तदुक्तम् ॥ नैवाहुति र्न च स्नात्रं, न श्राद्धं देवतार्च्चनं ॥ दानं वा विहित्तं रात्रौ भोजनं तु विशेषतः ॥
अथ भावशुद्धिहेतुत्वान्निशायामपि बलिस्नात्रादिविधानं सङ्गतम् ॥ तथाहि । रात्रावपि जिनगृहे दुग्धदधिसुरभिनीविपूरेणातिनीरजीकृतभगवद्गात्रं स्नानं विदधते विकचविचकिलबकुलमालतीनवमालिकादिभिश्च वर्यां सपर्यां विरचयतो रुचिरचनानिर्मितजनमनोहारं स्निग्धमधुरपक्वान्नफलोपहारं च ढौकयतः श्रद्धाबन्धुरबुद्धेर्गृहिणो दूरीकृतकुगतिवासो भावोल्लासो जायते ॥ तस्यैव च सुगतिहेतुत्वेन भगवतो बहुमतत्वात् ॥
यदाह ॥ जो चेव भावलेसो, सो चेव य भगवओ बहुमउत्ति ॥
इति चेत् तन्न ॥ मार्गानुसारिण्याः कदाग्रहरहितायाः प्रज्ञापनायोग्याया एव भावशुद्धेरिहाधिकारात् ॥ यदुक्तम् ॥
भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियात्यर्थं न पुनः स्वाग्रहात्मिका ॥ औचित्येन प्रवृत्तस्य कुग्रहत्यागतो भृशम् । सर्वत्रागमनिष्टस्य भावशुद्धिर्यथोदिता ॥
भवद्विवक्षितायाश्च भावशुद्धैः सिद्धान्तविरोधीत्वेन मुक्तिमार्गानुसारित्वाभावात् अस्मत्पूर्वजैरेतावतमनेहसं रात्रावेवेदं स्नात्रं कारितमतोऽस्माभिरपीत्थमेवकर्तव्यमिति कदाग्रहग्रस्ततया प्रज्ञापनानुचितत्वाच्च कथं मुक्त्यङ्गता स्यादिति ॥
नन्दिविधानमपि रात्रो महादोषम् ॥ तथाहि दीक्षाद्यर्थं हि नन्दिकरणं ॥ दीक्षा च स्थूलसूक्ष्मप्राणातिपातविरतिलक्षणा ॥ रात्रौ च प्रकाशनिमित्तोज्वालितभूरिदीपकरूपतेजस्कायिकजीवानां शरीरस्पर्शेन व्यापादनात् प्रतिदीपेषु च निरन्तरं निपततां लक्षशः पतङ्गादि
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org