________________
७३
विभाग-१, बृहद्वृत्तिः
जयणाय धम्मजणणी, जयणा धम्मस्स पालणीचेव ।
तववुड्डिकरी जयणा, एगंतसुहावहा जयणा । किञ्च माभूबृहच्छब्देन सत्त्वसंहारकारिणां गृहगोधिकादिनां क्रूरजन्तुनामुत्थानमिति प्राभातिकं प्रतिक्रमणमपि साधूनां मृदुस्वरेणाभिहितमागमे ॥ यामिन्यां च मज्जन्नादिविधौ निरन्तरगम्भीरोद्धरवाद्यमानातोद्यनिनादश्रवणेन विभातमिति मन्यमानस्य तप्तायोगोलकल्पस्यासंयतजनस्य जागरणात् ॥
तथाच तत्क्षणतदारभ्यमाणानेकपापकर्मनिमित्तभावेन कथं रात्रिस्नात्रकर्तृणां पापबन्धो न भवेत् ॥ एतेन यदपि क्वचित्कथादिषु केषाञ्चित् स्त्रीपुंसानां गिरिकाननादिस्थितदेवगृहेषु निशायां जिनप्रतिमास्नानादिश्रवणेन तदभ्युपगमः सोप्यलीकालम्बनमात्ररुचितां भवतो व्यनक्ति मोक्षार्थस्नात्रादेरिहाधिकृतत्वात् ॥ तस्य च सिद्धान्ते रात्रौ निवारणात् ॥ ___ तथाहि ॥ सिद्धान्ते संझाओ तिन्नि ताव ओहेणमिति वचनात् सन्ध्यात्रयलक्षणो जिनपूजायाः कालो नियमितो रात्रावपि तद्विधाने च कालंमि कीरमाणं किसिकम्मं बहुफलं जहा ॥ होइ इय सव्वच्चियकिरिया, नियनियकालंमि विनेयेत्यादिना कृषिदृष्टान्तेन कालविधीयमानजिनपूजादिक्रियाणां साफल्याभिधानं व्यर्थमापद्येत ॥
न च "वित्तिकिरियाविरुद्धो, अहवा जो जस्स जावइओ इतिवचनाद्रात्रावपितत्प्रतिपादनमिति वाच्यम् ॥ श्रावकाणां त्रिसन्ध्यं जिनपूजाया दिनकृत्यत्वेन सिद्धान्तेऽभिधानात् ॥ ततश्चवित्तिकिरियाविरुद्धो इत्यादेरयमों यः प्राभातादिसन्ध्यायां वृत्तिनिमित्तवाणिज्यादिव्यग्रत्वात्कथञ्चिदेवपूजायां न व्याप्रियते स दिनमध्य एव मुहूर्तादिना सन्ध्या तिक्रमेप्यपवादतः पूजां करोतु ॥ न पुनरस्यायमों यदुतापवादेन रात्रौ करोति दिनकृत्यताहानि प्रसङ्गादिति ॥" . एवं च यद्यपि विद्यादिसिद्ध्यर्थिनां केषाञ्चिद्भवाभिनन्दित्वेन गिरिकाननादौ जिनस्नात्रादिषु रात्रावपिप्रवृत्तिः श्रूयते तथापिन तच्चरितमवलम्ब्य श्रुतोक्तमज्जनादिसमयं परिहृत्य रात्रौ तद्विधानेन विवेकिनात्मगुहा भवितव्यमिति ॥
एतेन रात्रौ जिनसदने बलिदाननन्दिप्रतिष्ठादिविधानमपि प्रत्युक्तम् ॥ प्रायो मज्जनेन समानयोगक्षेमत्वात् ॥ निशिस्नपनोक्तदोषाणां बलिदानादावपि संभवात् ॥ किञ्चिदाधिक्याच्च तत्र प्रथमं तावद्वलिदानमधिकृत्य तदुच्यते ॥
भगवत्प्रवचने विभाव- चतुर्विधाहारस्यापि संसक्तिमत्त्वप्रतिपादनात् ॥ तथाच निशि जिनपुरतस्तादृगाहारदानेन कथं तत्प्रभवासङ्ख्यजीववधजन्यः कर्मबन्धो दातॄणां न स्यात् ॥
तदुक्तम् ॥ रात्रौ बलिं वृषनिमित्तमतीवजीवसंसक्तिमन्तमपि तीर्थपतेः पुरस्तात् ॥ ये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org