________________
योगदृष्टिसमुच्चय-सूत्र : १०
प्रवृत्तिलक्षणधर्मसंन्यासायाः प्रव्रज्यायाः ज्ञानयोगप्रतिपत्तिरूपत्वात् ।
अत एवास्या भवविरक्त एवाधिकार्युक्तः, यथोक्तं-“अथ प्रव्रज्याहः (१) आर्यदेशोत्पन्नः (२) विशिष्टजातिकुलान्वित; (३) क्षीणप्रायकर्ममल; (४) तत एव विमलबुद्धिः, (५) 'दुर्लभं मानुष्यं, जन्म मरणनिमित्तं, संपदश्चपला, विषया दुःखहेतवः संयोगे वियोग, प्रतिक्षणं मरणं, दारुणो विपाकः' इत्यवगतसंसारनैर्गुण्य(६) तत एव तद्विरक्त; (७) प्रतनुकषायः, (८) अल्पहास्यादिः(९) कृतज्ञः (१०) विनीतः (११) प्रागपि राजामात्यपौरजनबहुमतः, (१२) अद्रोहकारी, (१३) कल्याणाङ्गः (१४) श्राद्धः, (१५) स्थिरः, (१६) समुपसंपन्नश्च इति ।" न ह्यनीदृशो ज्ञानयोगमाराधयति, न चेदृशो नाराधयतीति भावनीयम् । सर्वज्ञवचनमागमः, तन्नायमनिरूपितार्थ इति ।
_ 'आयोज्यकरणादूर्ध्वं' इति केवलाभोगेनाऽचिन्त्यवीर्यतया 'योज्य'तथा-तथा तत्कालक्षपणीयत्वेन भवोपग्राहिकर्मणस्तथावस्थानभावे (भावेन) 'करणं' कृतिरायोज्यकरणं शैलेश्यवस्थाफलमेतत् । अत एवाह 'द्वितीय इति तद्विदः,-योगसंन्याससंज्ञित:सामर्थ्ययोग इति तद्विदोऽभिदधति शैलेश्यवस्थायामस्य भावात् ।
. सर्वमिदमागमिकं वस्तु, तथा चैतत्संवाद्यार्षम्- “करणं अहापवत्तं, अपुवमणियट्टिमेव भव्वाणं । इयरेसिं पढमं चिय, भण्णइ करणं ति परिणामो ॥१॥ जा गण्ठी ता पढम, गण्ठिं समइच्छओ भवे बीयं । अणियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥२॥ गण्ठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढगण्ठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥३॥ एत्तो विवज्जओ खलु, भिन्ने एयम्मि सम्मणाणं तु । थोवं पि सुपरिसुद्धं 'सच्चासम्मोहहेउ त्ति ॥४॥ सम्मत्तंमि उ लद्धे, पलियपुहत्तेण सावओ होइ । चरणोवसमखयाणं, सागरसंखन्तरा होन्ति" २ ॥५॥ [विशेषावश्यकगता इमा गाथाः - १२०२, १२०३, - ११९५-१२२२] इत्यादि, लेशतः परिभावितार्थमेतत् ॥१०॥
१. सव्वाऽ-ता. २. एतासां विशेषार्थो विशेषावश्यकभाष्यविवरणे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org