________________
योगदृष्टिसमुच्चय-सूत्र : ८-९-१०
७१ णादिज्ञानशब्दवाच्यमपरैरपीत्यदोषः ॥८॥ सामर्थ्ययोगभेदाभिधानायांह
द्विधायं धर्मसंन्यास-योगसंन्याससंज्ञितः ।
क्षायोपशमिका धर्मा योगाः कायादिकर्म तु ॥९॥ "द्विधा'-द्विप्रकार: अयं-सामर्थ्ययोगः । कथमित्याह 'धर्मसंन्यासयोगसंन्याससंज्ञितः' इति । धर्मसंन्याससंज्ञा संजाताऽस्येति धर्मसंन्यासंसंज्ञितः, 'तारकादिभ्य इतच्' । एवं योगसंन्याससंज्ञा संजाताऽस्येति योगसंन्याससंज्ञितः । संज्ञा चेह "तया संज्ञायत" इति कृत्वा, सा तत्स्वरूपमेव गृह्यते । क एते धर्माः के वा योगा? इत्याह 'क्षायोपशमिका धर्मा':क्षयोपशमनिवृत्ताः क्षान्त्यादयः, 'योगाः कायादिकर्म तु'-योगाः पुनः कायादिव्यापारा: कायोत्सर्गकरणादयः एवमेष द्विधा सामर्थ्ययोग इति ॥९॥ यो यदा भवति तं तदाभिधातुमाहद्वितीयापूर्वकरणे, प्रथमस्तात्त्विको भवेत् ।
आयोज्यकरणादूर्वा, द्वितीय इति तद्विदः ॥१०॥ "द्वितीयापूर्वकरण' इति, ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थं "द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगाऽसिद्धेः । अपूर्वकरणं त्वपूर्वपरिणाम: शुभोऽनादावपि भवे तेषु-तेषु धर्मस्थानेषु वर्तमानस्य तथाऽसंजातपूर्वो ग्रन्थिभेदादिफल उच्यते । तत्र प्रथमेऽस्मिन् ग्रन्थिभेदः फलं, अयं च सम्यग्दर्शनफलः, सम्यग्दर्शनं च प्रशमादिलिङ्ग आत्मपरिणामः । यथोक्तं "प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं" (त.भाष्य-१-२) इति, यथाप्राधान्यमयमुपन्यासः 'चारुश्च पश्चानुपूर्येति समयविदः । द्वितीये त्वस्मिस्तथाविधकर्मस्थितेस्तथाविधसंख्येयसागरोपमातिक्रमभाविनि 'प्रथमस्तात्त्विको भवेत्' इति, 'प्रथमो'पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः, अतोऽयमित्थमुपन्यास इति । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति,
१. त्वाच्च न-ता.। २. तारक-ऋतम्भरादिज्ञान मो. ['ऋतम्भरा तत्र प्रज्ञा' पातंजलयोग-१४८] ३. तदस्य सज्जात तारकादिभ्य इत: [सिद्धहेम-७-१-१३६] ४.द्वितीयेति ग्रहणं - मो. । ५. लाभश्च । . .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org