________________
योगदृष्टिसमुच्चय-सूत्र : ६-७-८
सर्वथा तत्परिच्छेदे शास्त्रादेवाभ्युपगम्यमाने दोषमाहसर्वथा तत्परिच्छेदात् साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः ॥७॥ 'सर्वथा'-सर्वैः प्रकारैरक्षेपफलसाधकत्वादिभिः । 'तत्परिच्छेदात्-' शास्त्रादेव सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदपरिच्छेदात् किमित्याह 'साक्षात्कारित्व -योगतः’-केवलेनेव ‘साक्षात्कारित्वेन योगात्कारणात्, 'तत्सर्वज्ञत्वसंसिद्धेः ' श्रोतृयोगिसर्वज्ञत्वसंसिद्धेः, अधिकृतहेतुभेदानामनेन सर्वथा परिच्छेदयोगात्, ततश्च 'तदा' - श्रवणकाल एव, 'सिद्धिपदाप्तितः '- मुक्तिपदाप्तेः, अयोगिकेवलित्वस्यापि शास्त्रादेव सद्भावावगतिप्रसङ्गादिति ॥७ ॥ स्यादेतत्अस्त्वेवमपि का नो बाधा, इत्यत्राह
७०
चैतदेवं'- अनन्तरोदितं,
न चैतदेवं यत्तस्मात् प्रातिभज्ञानसङ्गतः । सामर्थ्ययोगोऽवाच्योऽस्ति, सर्वज्ञत्वादिसाधनम् ॥८ ॥ 'न शास्त्रादयोगिकेवलित्वावगमेऽपि सिद्ध्यसिद्धेः । यद्-यस्मादेवं तस्मात् प्रातिभज्ञानसंगतो मार्गानुसारिप्रकृष्टोहाख्यज्ञानयुक्तः । किमित्याह 'सामर्थ्ययोगः ' सामर्थ्यप्रधानो योगः सामर्थ्ययोगः प्रक्रमाद्धर्मव्यापार एव क्षपक श्रेणिगतो गृहयते, अयं 'अवाच्योऽस्ति' तद्योगिनः स्वसंवेदनसिद्धेः, 'सर्वज्ञत्वादिसाधनं' अक्षेपेणातः सर्वज्ञत्वसिद्धेः । आह-" इदमपि प्रातिभं श्रुतज्ञानमेव, अन्यथा षष्ठज्ञानप्रसङ्गः । न चैतत् केवलं, सामर्थ्ययोगकार्यत्वादस्य । एवं च सिद्ध्याख्यपदसंप्राप्तिहेतुभेदास्तत्त्वतः शास्त्रादेवावगम्यन्त इति" । अत्रोच्यते,- नैतच्छुतं, न केवलं, न च ज्ञानान्तरमिति, रात्रिंदिवारुणोदयवत् । अरुणोदयो हि न रात्रिंदिवातिरिक्तो न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन्न तदतिरिक्तं न च तयोरेकमपि वक्तुं शक्यते । तत्काल एव तथोत्कृष्टक्षयोपशमवतो भावात् श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान्न श्रुतं, क्षायोपशमिकत्वादशेषद्रव्य-पर्यायाऽविषयत्वान्न' केवलमिति । इष्टं चैतत्तारकनिरीक्ष
१. मन्येन. भ.पा. प. ता. । २. दायोगात् भ. पा. प. ता. । ३. तद्भावा....ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org