________________
६९
योगदृष्टिसमुच्चय-सूत्र : ४-५-६ इच्छाप्रधानत्वं चास्य तथा'ऽकालादावपि करणादिति ॥३॥ शास्त्रयोगस्वरूपाभिधित्सयाह- .
शास्त्रयोगस्त्विह ज्ञेयो, यथाशक्त्यप्रमादिनः ।
श्राद्धस्य तीव्रबोधेन, वचसाऽविकलस्तथा ॥४॥ 'शास्त्रयोगस्तु' इति शास्त्रप्रधानो योगः शास्त्रयोगः प्रक्रमाद्धर्मव्यापार एव । स तु-पुनः, 'इह'-योगतन्त्रे, 'ज्ञेयो'- विज्ञेयः । कस्य कीदृगित्याहयथाशक्ति-शक्त्यनुरूपं, अप्रमादिनः- विकथादिप्रमादरहितस्य । अयमेव विशिष्यते-श्राद्धस्य तथाविधमोहापगमात्संप्रत्ययात्मिकादिश्रद्धावतः, तीव्रबोधेन-पटुबोधेन हेतुभूतेन, वचसा-आगमेन, अविकल:-अखण्डः, तथा कालादिवैकल्याऽबाधया, "न झपटवोऽतिचारदोषज्ञा" इति ॥४॥ सामर्थ्ययोगलक्षणमाह
शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः ।
शक्त्युद्रेकाद्विशेषेण, सामर्थ्याख्योऽयमुत्तमः ॥५॥ 'शास्त्रसन्दर्शितोपायः' इति सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रे तदभिधानात् । तदतिक्रान्तगोचर'-इति शास्त्रातिक्रान्तविषयः । कुत इत्याह शक्त्युद्रेकात् इति शक्तिप्राबल्यात् । 'विशेषेण' इति न सामान्येन शास्त्रातिक्रान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य । 'सामर्थ्याख्योऽयं' इति सामर्थ्ययोगाभिधानोऽयं योगः 'उत्तमः'-सर्वप्रधानः तद्भावभावित्वात्, अक्षेपेण प्रधानफलकारणत्वादिति ॥५॥ एतत्समर्थनार्यवाह
'सिद्धयाख्यपदसम्प्राप्ति-हेतुभेदा न तत्त्वतः ।
शास्त्रादेवावगम्यन्ते, सर्वथैवेह योगिभिः ॥६॥ . 'सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदाः -मोक्षाभिधानपदसम्प्राप्तिकारणविशेषाः सम्यग्दर्शनादयः, किमित्याह 'न तत्त्वतः'-न तत्त्वभावेन परमार्थतः, 'शास्त्रादेवावगम्यन्ते'। न चैवमपि शास्त्रवैयर्थ्यमित्याह, 'सर्वथैवेह योगिभिः' इति सर्वैरेव प्रकारैरिह लोके साधुभिः, अनन्तभेदत्वात्तेषामिति ॥६॥
१. कालादावकरणादिति....ता. टि.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org