________________
योगदृष्टिसमुच्चय-सूत्र : २-३
"
प्रयोजनं तु निर्वाणमेव, शुद्धाशयतस्तथासत्त्वहितप्रवृतेः, अस्याश्चावन्ध्यनिर्वाणबीजत्वादिति । अभिधेयं योग एव । साध्यसाधनलक्षण (णश्च) सम्बन्ध इति; क्षुण्णोऽयं मार्गः । श्रोतॄणां त्वनन्तरप्रयोजनं प्रकरणार्थपरिज्ञानं, परंपराप्रयोजनं त्वमीषामपि निर्वाणमेव, प्रकरणार्थपरिज्ञानादौचित्येनाऽत्रैव प्रवृत्तेः अस्याश्चाप्यवन्ध्यनिर्वाणबीजत्वादिति ॥ १ ॥ एवं सम्पादितेष्टदेवतास्तवः प्रयोजनाद्यभिधाय प्रकरणोपकारकं प्रासङ्गिकमभिधातुमाहइहैवेच्छादियोगानां स्वरूपमभिधीयते । योगिनामुपकाराय व्यक्तं योगप्रसङ्गतः ॥ २ ॥
'इहैव' इति प्रक्रमे, किमित्याह 'इच्छादियोगानां' इति इच्छायोगशास्त्रयोग-सामर्थ्ययोगानाम् किमत आह, 'स्वरूपमभिधीयते' इति स्वलक्षणमुच्यते । किमर्थमेतदित्याह 'योगिनामुपकाराय' इति योगिनोऽत्र कुलयोगिनः प्रवृत्तचक्रा गृह्यन्ते वक्ष्यमाणलक्षणाः, न निष्पन्नयोगा एव, तेषामत उपकाराभावात्, तदितरेषामेवोपकारार्थम् । उपकारश्चातो योगहृदयावबोधः । कथमभिधीयत इत्याह 'व्यक्तं'- स्पष्टं, न चाप्रस्तुतमप्येतदित्याह 'योगप्रसङ्गत' इति, मित्रादियोगप्रसङ्गेन प्रसङ्गाख्यतन्त्रयुक्त्याक्षिप्तमित्यर्थः ॥२॥
इच्छायोगस्वरूपप्रतिपादनायाह
६८
कर्तुमिच्छो: श्रुतार्थस्य, ज्ञानिनोऽपि प्रमादतः । विकलो धर्मयोगो यः, स इच्छायोग उच्यते ॥३॥ 'कर्तुमिच्छो:-' कस्यचिन्निर्व्याजमेव तथाविधक्षयोपशमभावेन, अयमेव विशिष्यते - किंविशिष्टस्यास्य चिकीर्षोः ? ' श्रुतार्थस्य' - श्रुतागमस्य, अर्थशब्दस्यागमवचनत्वात् अर्थ्यतेऽनेन तत्त्वं इति कृत्वा । अयमपि कदाचिदज्ञान्येव भवति, क्षयोपशमवैचित्र्यात् अत आह 'ज्ञानिनोऽपि 'अवगतानुष्ठेयतत्त्वार्थस्यापीति । एवंभूतस्यापि सतः किमित्याह 'प्रमादतः 'प्रमादेन विकथादिना, विकलः असंपूर्णः कालादिवैकल्यमाश्रित्य धर्मयोगोधर्मव्यापारः, 'यः' इति योऽर्थः वन्दनादिविषयः स इच्छायोग उच्यते',
-
१. श्चाव....पा.मो.ता. । २. अर्य्यते.....भ.पा.ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org