________________
योगदृष्टिसमुच्चय-सूत्र : १
प्रयोजनादित्रयमिति श्लोकसूत्रसमुदायार्थः ॥
अवयवार्थस्तु नत्वा-प्रणम्य, वीरं इति योगः । कथमित्याह इच्छायोगतः इति क्रियाविशेषणमदः 'इच्छायोगेन', शास्त्रयोग-सामर्थ्ययोगव्यवच्छेदार्थमेतत् ।इष्टव्यवच्छेदश्चायं तदनधिकारित्वेन प्रकारणारम्भे मृषावादपरिहारेण सर्वत्रौचित्यारम्भप्रवृत्तिप्रदर्शनार्थः । एतेषां च त्रयाणामपि योगानां स्वरूपमनन्तरमेव वक्ष्यति । किंविशिष्टं वीरमित्याह-जिनोत्तमं इति वस्तुविशेषणम् । इह रागादिजेतृत्वात्सर्व एव विशिष्ट श्रुतधरादयो जिना उच्यन्ते । तद्यथाश्रुतजिनाः, अवधिजिनाः, मनःपर्यायज्ञानजिनाः, केवलिजिनाश्च, तेषामुत्तमः केवलित्वात्तीर्थंकरत्वाच्च । अनेन भगवतस्तथाभव्यत्वाक्षिप्तवरबोधिलाभगर्भार्हद्वात्सल्योपात्तानुत्तरपुण्यस्वरूपतीर्थंकरनामकर्मविपाकफलरूपां परंपरार्थसम्पादनीं 'कर्मकायावस्थामाह । अयमेव विशिष्यते 'अयोगं' इति । "कायवाङ्मनःकर्म योगः"अविद्यमानयोगोऽयोगः, तम् । अनेन च भगवतः शैलेश्यवस्थोत्तरकालभाविनी समस्तकर्मापगमरूपां तथाभव्यत्वपरिक्षयोद्भूतपरमज्ञानसुखलक्षणां कृतकृत्यतया निष्ठितार्थां परमफलरूपां (च) तत्त्वकायावस्थामिति । अत एवाह योगिगम्यं' इति, योगिनां गम्यो योगिगम्यः, तम् । योगिनोऽत्र श्रुतजिनादयो गृह्यन्ते, अनेनापि भगवतोऽयोगिमिथ्यादृष्टिगम्यत्वव्यवच्छेदमाह । एतज्जिज्ञासाया अपि चरमयथाप्रवृत्तकरणभावित्वादन्यदा तदनुपपत्तिरिति ।
वीरं इति चान्वर्थसंज्ञेयं, महावीर्यराजनात्तपःकर्मविदारणेन कषायादिशत्रु -जयात्केवलश्रीस्वयंग्रहणेन विक्रान्तो वीरः, तम् । इत्थमनेन यथाभूतान्याऽसाधारणगुणोत्कीर्तनरूपत्वाद्भावस्तवस्येष्टदेवतास्तवमाहेति । इष्टत्वं च गुणतो गुणप्रकर्षरूपत्वाद् भगवतः, देवतात्वं च परमगत्यवाप्त्येति । 'वक्ष्ये समासेन योगं तदृष्टिभेदतः' इत्यनेन तु प्रयोजनादित्रयमाह । कथमित्युच्यते वक्ष्ये अभिधास्ये-'योग'-मित्रादिलक्षणं, 'समासेन'-संक्षेपेण, विस्तरेण तु पूर्वाचायैरेवायमुक्तोऽप्युत्तराध्ययन-योगनिर्णयादिषु, 'तद्दष्टिभेदतः' इति योगदृष्टिभेदेन । तदत्र समासतो योगाभिधानं कर्तुरनन्तरं प्रयोजनम्, परंपरा
१. प्रकरणकारस्येति पाठान्तरम्; २. धर्मका.....ता.; ३. इत्यत्र तु....प्र.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org