________________
॥ ॐ अर्ह नमः ॥ श्रीहरिभद्रसूरिसन्दृब्धः स्वोपज्ञव्याख्यासमेतः
॥ श्री योगदृष्टिसमुच्चयः ॥
योगतन्त्रप्रत्यासनभूतस्य योगदृष्टिसमुच्चयस्य व्याख्या प्रारभ्यते । इह चादावेवाचार्यः (१) शिष्टसमयप्रतिपालनाय (२) विघ्नविनायकोपशान्तये (३) प्रयोजनादिप्रतिपादनार्थं (चेदं) श्लोकसूत्रमुपन्यस्तवान्
नत्वेच्छायोगतोऽयोगं, योगिगम्यं जिनोत्तमम् ।
वीरं वक्ष्ये समासेन, योगं तदृष्टिभेदतः ॥१॥ इति ॥ (१) तत्र शिष्टानामयं समयो यदुत "शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते" । अयमप्याचार्यो न हि न शिष्ट इति अतस्तत्समयप्रतिपालनाय, तथा चोक्तम् "शिष्टानामेष समयस्ते सर्वत्र शुभे किल ॥ प्रवर्तन्ते सदैवेष्टदेवतास्तवपूर्वकम्" ॥१॥ इत्यादि ॥ (२) तथा श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्तं च-“श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि ॥ अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः" ॥१॥ इति ॥ इदं प्रकरणं तु सम्यग्ज्ञानहेतुत्वाच्छ्योभूतम् । अतो 'मा भूद्विघ्न' इति विघ्नविनायकोपशान्तये । (3) तथा प्रेक्षावतां प्रवृत्त्यर्थं प्रयोजनादिप्रतिपादनार्थं च (आद्यं श्लोक-सूत्रमुपन्यस्तम्)। तथा चोक्तम्"सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं, तावत्तत्केन गृह्यते ॥१॥ न चाप्यविषयस्येह, शक्यं वक्तुं प्रयोजनम् ॥ काकदन्तपरीक्षादेस्तत्प्रयोगाप्रसिद्धितः ॥२॥ अस्येदं फलमित्येवं, योगः सम्बन्ध उच्यते । तदुक्त्यन्तर्गतत्वेन, न पृथक्कैश्चिदिष्यते" ॥३॥ इत्यादि ॥
तत्र 'नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् वीरं' इत्यनेनेष्टदेवतास्तवमाह । 'वक्ष्ये समासेन योगं तदृष्टिभेदतः' इत्यनेन तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org