________________
योगदृष्टिसमुच्चय-सूत्र : १०-११-१२-१३-१४
यत आयोज्यकरणादूर्ध्वं द्वितीयः
अतस्त्वयोगो योगानां, योगः पर उदाहृतः ।
मोक्षयोजनभावेन, सर्वसंन्यासलक्षणः ॥११॥ अत एव शैलेश्यवस्थायां योगसंन्यासात्कारणात् 'अयोगो'-योगाभावः 'योगानां'-'मित्रादीनाम्, 'मध्य' इति गम्यते, किमित्याह योगः 'पर:'-प्रधान 'उदाहृतः' इति । कथमित्याह 'मोक्षयोजनभावेन' हेतुना योजनाद्योग इति कृत्वा, स्वरूपमस्याह 'सर्वसंन्यासलक्षणः'-अधर्मधर्मसंन्यासयोरप्यत्र परिशुद्धिभावादिति ॥११॥ एवमेतत्स्वरूपममिधाय प्रकृतोपयोगमाह
एतत्त्रयमनाश्रित्य, विशेषेणैतदुद्भवाः ।।
योगदृष्टय उच्यन्त अष्टौ सामान्यतस्तु ताः ॥१२॥। एतत्त्रयं-इच्छायोगादिलक्षणं, अनाश्रित्याऽनङ्गीकृत्य विशेषेणाऽस्मादिय -मित्येवंलक्षणेन। किमित्याह 'एतदुद्भवाः योगदृष्टय उच्यन्ते' मित्राद्याः, 'अष्टौ सामान्यतस्तु ता:' दृष्टय इति ॥१२॥ ताश्चैताः
मित्रा तारा बला दीप्रा, स्थिरा कान्ता प्रभा परा ।
नामानि योगदृष्टीनां, लक्षणं च निबोधत ॥१३॥ ___तत्र मित्रेव मित्रा, तारेव तारेत्यादि यथार्थान्येव नामानि योगदृष्टीनाम् ।। 'लक्षणं' चासां वक्ष्यमाणलक्षणं, 'निबोधत'-शृणुतेत्यर्थः ॥१३॥ इहौघदृष्टिव्यवच्छेदार्थं योगदृष्टिग्रहणमिति तामभिधातुमाह
समेघाऽमेघराज्यादौ, सग्रहाद्यर्भकादिवत् ।। .. ओघदृष्टिरिह ज्ञेया, मिथ्यादृष्टीतराश्रया ॥१४॥
इहौघदृष्टिानावरणीयादिकर्मक्षयोपशमवैचित्र्याच्चित्रा, समेघामेषं च तद्राव्यादि च आदिशब्दाद् दिवसपरिग्रहः तस्मिन्, सग्रहादिश्चासौ अर्भकादिश्चेति विग्रहः, प्रथमादिशब्दादग्रहपरिग्रहः, द्वितीयादिशब्दादनर्भकपरिग्रहः । 'ओघदृष्टिः' सामान्यदर्शनं भवाभिनन्दिसत्त्वविषया, मिथ्यादृष्टि.श्चेतरश्च मिथ्यादृष्टीतरौ, तदाश्रया, काचाद्युपहतो मिथ्यादृष्टिः, तदनुपहतस्त्वितर १. मैत्रा... ता. । २. इच्छायोगादिप्रभवाः - ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org