________________
७४
योगदृष्टिसमुच्चय-सूत्र : १४-१५ इत्यक्षरगमनिका ।
भावार्थस्तु-एका समेघायां रात्रौ दृष्टिः किंचिन्मात्रग्राहिणी, अपरा त्वमेघायां मनागधिकतरग्राहिणीति, आदिशब्दाद्दिवसग्रह इति, 'तदेका समेघे दिवसे तथाऽपराऽमेघ इति, अस्ति चानयोर्विशेषः । इयमपि सग्रहस्य द्रष्टुः, आदिशब्दादग्रहस्य च, भवत्यनयोरपि विशेषः, चित्र(त्त)विभ्रमादिभेदात् । इयमप्यर्भकस्य द्रष्टुः, आदिशब्दादनर्भकस्य च, अस्त्यनयोरपि भेदो विवेकवैकल्यादिभेदात् । इयमपि मिथ्यादृष्टेः काचाद्युपहतलोचनस्य, इतरस्य तदनुपहतलोचनस्येति । यथैष दृष्टिभेद एकस्मिन्नपि दृश्ये चित्रोपाधिभेदात्, तथा पारलौकिकेऽपि प्रमेये क्षयोपशमवैचित्र्यतश्चित्रः प्रतिपत्तिभेद इति । एतन्निबन्धनोऽयं दर्शनभेद इति योगाचार्याः । न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदावबोधभावादिति । प्रवृत्तिरप्यमीषां परार्थं शुद्धबोधभावेन विनिवृत्ताऽऽग्रहतया मैत्र्यादिपारतन्त्रयेण गम्भीरोदाराशयत्वात् चारिचरिकसंजीवन्यचरकचारणनीत्येत्यलं प्रसङ्गेन ॥१४॥
प्रकृतं प्रस्तुमः । प्रकृता च मित्रादिभेदभिन्ना योगदृष्टिः, इयं चेत्थमष्टधेति निदर्शनमात्रमधिकृत्याह- .
तृणगोमयकाष्ठाग्नि-कणदीपप्रभोपमा ।
रत्नतारार्कचन्द्राभा, सद्दष्टेदृष्टिरष्टधा ॥१५॥ इहाधिकृतदृष्टिबोधः खल्वर्थोक्त एव तृणाग्निकणाद्युदाहरणसाधर्म्यतो निरूप्यते । सामान्येन ‘सद्दष्टे'–ोगिनो 'दृष्टि'-र्बोधलक्षणाष्टधा भवति । तृणाग्निकणोपमा मित्रायां, गोमयाग्निकणोपमा तारायां, काष्ठाग्निकणोपमा बलायां, दीपप्रभोपमा दीप्रायां, तथाविधप्रकाशमात्रादिनेह साधर्म्यम् ।
यदाह-मित्रायां बोधस्तृणाग्निकणसदृशो भवति, न तत्त्वतोऽभीष्टकार्यक्षमः, सम्यक्प्रयोगकालं यावदनवस्थानादल्पवीर्यतया (ततः) पटुस्मृतिबीजसंस्काराधानानुपपत्तेः, ततश्च विकलप्रयोगभावाद्भावतो वन्दनादिकार्यायोगादिति । तारायां तु बोधो गोमयाग्निकणसदृशः, अयमप्येवंकल्प एव, तत्त्वतो विशिष्टस्थिति-वीर्यविकलत्वात्, अतोऽपि प्रयोगकाले स्मृतिपा३. तत्रे(त्रै)का - मो. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org