________________
योगशतक-सूत्र : ९७-९८ मेगनाडीसंचारे दस, तीसाहमेगनाडीसंचारे पंच, एगतीसाहमेगनाडीसंचारे तिण्णि, बत्तीसाहमेगनाडीसंचारे दो, तेत्तीसाहमेगनाडीसंचारे दिवसो जीवियं ।' तथा अन्यैरप्युक्तम्
*पञ्चाहात् पञ्चवृद्ध्या दिवसगतिरिहाऽऽरोहते पञ्चविंशात् तस्मादेकोत्तरेण त्रिगुणितदशकं त्र्युत्तरं यावदेतत् । काले पौष्णे समास्तास्त्रि-नयन-शशिनः, षट्-त्रि-युग्मेन्दवो ये, मासास्तेऽहानि शेषास्तिथि-दिगिषु-गुण-द्वीन्दवो जीवितस्य ॥
एवं 'देवतात:-देवताकथनेन, चारित्री देवतापरिगृहीतो भवति तस्योचितमन्यदपि देवता कथयत्येव । एवं प्रतिभातः-प्रातिभमप्यस्याविसंवाद्येव भवति, व्यवहारोपयोगिन्यपि तथोपलब्धेः । एवं 'स्वप्नाद्-"मृतगुर्वाह्वानादेः मृतगुर्वाह्वान-बाल-देहभाव-भोगसन्दर्शनं योगिनोऽन्तकाले सिद्धः चित्तविभ्रम इति । 'अरुन्धत्याद्यदृष्टेः, यथोक्तम्
प्रध्मातदीप[ग]गन्धमल्पायुर्नैव जिघ्रति । स्फुटतारावृते व्योम्नि न च पश्यत्यरुन्धतीम् ॥ [ ]
तथा 'नासा-ऽक्षितारकाऽदर्शनात्' इति नासिकाऽदर्शनं अवष्टब्धाऽक्षिज्योतिस्ताराऽदर्शनं चाऽऽसन्नमृत्युलिङ्ग, तथा कर्णाग्न्यश्रवणाद्'-अगुष्ठापूरितकर्णान्तराग्न्यश्रवणं आसनमृत्युलिङ्गं समुद्रध्वनिश्रवण-दशग्रन्थिस्फुरणद्वादशाक्षरानुपलम्भाधुपलक्षणमेतत् । इति गाथार्थः ॥१७॥ एवमेनं ज्ञात्वा किम् ? इत्याह
अणसणसुद्धीए इहं जत्तोऽतिसएण होइ कायव्यो । जल्लेसे मरइ जओ तल्लेसेसुं तु उववाओ ॥१८॥
* "समसप्तगते सूर्ये चन्द्रे जन्मक्षमाश्रिते । स कालः पौष्ण उद्दिष्टः कुर्यास्तत्र विचारणाम् ॥ आदौ कृत्वा दिनार्धं सकलदिनमथाहर्निशं चोत्तरेण, पश्चादह्रद्वयं च त्रिदिनमथ चतुर्वासराणि क्रमेण । प्राणो नाड्याश्रितो यो भवति दिनपतेरुद्गमात् सव्यहीनः, तत्रैतान् धारणाब्दान् मनुरविविदिशो मण्डलाः षट् चतस्रः ॥" इत्येषा आदर्शगता टिप्पणी ॥ * अस्य ग्रन्थस्य ताडपत्रीये मूलाद” एतत्पुष्पिकास्थाने एतादृग्रहंसपदं वर्तते, किञ्च उपरि अधो वा पाठो लिखितो नास्तीति संशोधकविदुषोऽत्र पाठ लेखनविस्मृतिः सम्भाव्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org