________________
योगशतक - सूत्र : ९८-९९-१००
अनशनशुद्धाविह कवचोदाहरणेन यत्नोऽतिशयेन भवति कर्तव्यः, फलप्रधानाः समारम्भा इति कृत्वा । किमेतदेवम् ? इत्याह- यल्लेश्यो म्रियते ‘यतः 'प्राणी भावलेश्यामधिकृत्य तल्लेश्येष्वेवामरादिषूपपद्यते, "जल्लेसे मरइ तल्लेसे उववज्जइ" [ ] इति वचनात् । न चास्यामवस्थायामेवं मतः स्वप्राणातिपातः, विहितकरणात्, वचनप्रामाण्याद् माध्यस्थ्योपपत्तेः, अन्यथा दोषभावाद् वचनविरोधात् । एवमेव हि तदाशयपरिपुष्टेः तत्सङ्कल्पभावानुरोधात् । इति गाथार्थः ॥९८॥
एवमिह लेश्यायाः प्राधान्यमुक्तम्, न चैतावतैव एतच्चारु भवतीत्याह -. साय वि आणाजोगओ उ आराहगो इहं णेओ ।
इहरा असतिं एसा वि हंतऽणाइम्मि संसारे ॥ ९९ ॥ लेश्यायामपि सत्याम्, किम् ? इत्याह- आज्ञायोंगत एव दर्शनादिपरिणामयोगादेवेत्यर्थः । आराधकश्चरणधर्मस्य 'इह ज्ञेय: ' इह प्रवचने ज्ञातव्यः, नान्यथा । एतदेवाह - 'इतरथा' - एवमनभ्युपगमे सति, किम् ? इत्याह'असकृत्' अनेकशः 'एषाऽपि ' शुभा लेश्या प्राप्ता सौधर्माद्युपपातेन "हन्त सम्प्रेषण- प्रत्यवधारण- विवादेषु" इति [ इह ' हन्त'] सम्प्रेषणेऽवसेयः, अनादौ संसारे, अतिदीर्घ इत्यर्थः, न चाऽऽराधकत्वं सञ्जातम्, तस्माद् यथोक्तमेव तत्त्वं प्रतिपत्तव्यम् । इति गाथार्थः ॥ ९९ ॥ प्रकरणोपसंहारार्थमेवाह
- ६४
ता इय आणाजोगे जयव्वमजोगअत्थिणा सम्मं । एसो चिय भवविरहो सिद्धीए सया अविरहो य ॥१०० ॥ यस्मादेवं तस्माद् " इय" एवम्, आज्ञायोगे - आज्ञाव्यापारे, किम् ? इत्याह-'यतितव्यं' यत्नः कार्यः । केन ? ' अयोगतार्थिना' शैलेशीकामेन सत्त्वेन 'सम्यग् ' अविपरीतेन विधिना । यस्माद् 'एष एव ' आज्ञायोगः 'भवविरहः ' जीवन्मुक्तिः, संसारविरहो वर्तते, कारणे कार्योपचारात्, यथाऽऽयुर्धृतमिति । तथा 'सिद्धेः ' मुक्तेः 'सदा' सर्वकालं अविरहश्चैष एव, आजीविकमतमुक्तव्यवच्छेदार्थमेतत्, मुक्तस्य कृतकृत्यत्वेनेहागमनायोगाद् अविरहः । इति गाथार्थः ॥ १०० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org