SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ GP योगशतक-सूत्र : ९४-९५-९६-९७ साम्प्रतं दार्टान्तिकयोजना-'तथा' तेन प्रकारेण 'इहजन्माभ्यस्तम्'-अधिकृतजन्मासेवितं कुशलादि सेवन्ते 'भवान्तरे'-जन्मान्तरे 'जीवाः'-प्राणिनः तत्स्वाभाव्यात् । इति गाथार्थः ॥१४॥ यस्मादेवं तस्मात् किम् ? इत्याह ता सुद्धजोगमग्गोच्चियम्मि ठाणम्मि एत्थ वट्टेजा । इह-परलोगेसु दढं जीविय-मरणेसु य समाणो ॥१५॥ ... 'तत्'-तस्मात् 'शुद्धयोगमार्गोचिते'-आगमाद् निरवद्ययोगमार्गानुरूपे 'स्थाने'-संयमस्थाने सामायिकादौ अत्र वर्तेत साम्प्रतजन्मनि । कथम् ? इत्याह-इहपरलोकयोः ‘दृढम्'-अत्यर्थम्, तथा जीवित-मरणयोश्च 'समानः' सर्वत्र तुल्यवृत्तिः, परं मुक्तावस्थाबीजमेतत् । इति गाथार्थः ॥१५॥ न भावतः सदाऽनौचित्यवृत्तेः पर्यन्तौचित्यावाप्तिरिति तद्गतं विधिमाह परिसुद्धचित्तरयणो चएज देहं तहंतकाले वि । आसण्णमिणं णाउं अणसणविहिणा विसुद्धेणं ॥१६॥ परिशुद्धचित्तरत्न: स सर्वत्रानाशंसया, किम् ? इत्याह-'त्यजेद् देहं' जह्यात् कायम् । तथा....तसंयुक्तशुभलेश्याप्रकारेण 'अन्तकालेऽपि' क्रमागतमरणकालेऽपि आसनम् ‘एनं' मरणकालं ज्ञात्वा, कथं त्यजेत् ? इत्याह-'अनशनविधिना'-अनशनप्रकारेण 'विशुद्धेन'-कवचज्ञाततः आगमपरिपूतेन । इति गाथार्थः ॥१६॥ मरणकालविज्ञानोपायमाह णाणं चाऽऽगम-देवय-पइहा-सुमिणंधराद'ऽदिट्ठिओ । णास-ऽच्छि-तारगादसणाओ कण्णग्गऽसवमणाओ ॥१७॥ ज्ञानं चाऽऽसन्नमरणकालस्य, कुतः ? इत्याह-'आगम-देवता-प्रतिभास्वप्ना-ऽरुन्धत्याद्यदृष्टेः' आगमाद्-मरणविभक्त्यादेः नाडीसञ्चारादिना । यथाऽऽहुः समयविदः 'उत्तरायणा पंचाहमेगनाडीसंचारे तिण्णि समाओ जीवियं, दसाहमेगनाडीसंचारे दो, पण्णराहमेगनाडीसंचारे एगं, वीसाहमेगनाडीसंचारे छम्मासा पंचवीसाहमेगनाडीसंचारे तिण्णि, छव्वीसाहमेगनाडीसंचारे दो, सत्तवीसाहमेगनाडीसंचारे एगो, अठ्ठावीसाहमेगनाडीसंचारे पण्णरस दियहा, एगूणतीसाह१. अत्र 'अरुंधती' पदमावश्यकम् ? Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy