________________
योगशतक-सूत्र : ९१ . वासी-चंदणकप्पं तु एत्थ सिठं अओ च्चिय बुहेहिं ।
आसयरयणं भणियं, अओऽण्णहा ईसि दोसो वि ॥११॥ 'वासी-चन्दनकल्पमेव'-सर्वमाध्यस्थ्यरूपम् 'अत्र'-व्यतिकरे 'श्रेष्ठं' प्रधानम् । अत एव कारणाद् 'बुधैः'-विद्वद्भिः 'आशयरत्नं भणितं'-चित्तरलमुक्तम्, “जो चंदणेण बाहं आलिंपइ" [उप. माला ९२] इत्यादिवचनेन ।
'अतोऽन्यथा
___ अपकारिण्येवोपकार्याशयकल्पनायामाशयरत्नस्य, किम् ? इत्याह'ईषत्' मनाग् दोषोऽपि तदपायानिरूपणेन । तथा चोक्तम्
"सामायिकं च मोक्षाङ्गं परं सर्वज्ञभाषितम् । वासी-चन्दनकल्पानामुक्तमेतन्महात्मनाम् ॥१॥ निरवद्यमिदं ज्ञेयमेकान्तेनैव तत्त्वतः । कुशलाशयरूपत्वात् सर्वयोगविशुद्धितः ॥२॥ यत् पुनः कुशलं चित्तं लोकदृष्टया व्यवस्थितम् । तत् तथौदार्ययोगेऽपि चिन्त्यमानं न तादृशम् ॥३॥ मय्येव निपतत्वेतज्जगदुश्चरितं यथा । मत्सुचरितयोगाच्च मुक्तिः स्यात् सर्वदेहिनाम् ॥४॥ असम्भवीदं यद् वस्तु बुद्धानां निर्वृतिश्रुतेः । सम्भवित्वे त्वियं न स्यात् तत्रैकस्याप्यनिर्वृतौ ॥५॥ एवं चिन्तनं न्यायात् तत्त्वतो मोहसङ्गतम् । साध्ववस्थान्तरे ज्ञेयं बोध्यादेः प्रार्थनादिवत् ॥६॥ अपकारिणि सद्बुद्धिर्विशिष्टार्थप्रसाधनात् । आत्मम्भरित्वपिशुना तदपायानपेक्षिणी ॥७॥ एवं सामायिकादन्यदवस्थान्तरभद्रकम् । स्याच्चित्तं तत् तु संशुद्ध ज्ञेयमेकान्तभद्रकम् ॥
[हारिभद्रीयमष्टकम् २९] इति । परैरप्यस्य प्रविभागो गीतः । यथोक्तम्
१. 'तदेवं चिन्तनं' इति हारिभद्राष्टके ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org