________________
योगशतक-सूत्र : ८९-९० बोधिप्रधानाः प्राणिन इति भवन्ति । तथाभावनातः सकाशाद् 'आशययोगेन' चित्तगाम्भीर्यलक्षणेन शुद्धा[श]या इति । तथा चार्षम्-"कायपातिनो हि बोधिसत्त्वाः, न चित्तपातिनः निराश्रवकर्मफलमेतत्" । इति तृतीयगाथार्थः ॥४८॥ एवमादि, आदिशब्दाद् 'विजया-ऽऽनन्द-सत्क्रिया-क्रियासमाधयः प्रवृत्तादीनाम्; तथा वितर्कचारु क्षुभितं प्रथमम्, प्रीत्युत्प्लावितमानसं द्वितीयम्, सुखसङ्गतमातुरं तृतीयम्, प्रशमैकान्तसुखं चतुर्थमेतत्" इत्यादि प्रगृह्यते । तदेवमादि यथोदितभावनाविशेषात् सकाशाद् 'युज्यते सर्वं'-घटते निरवशेषम्, तत्त्वमधिकृत्य योगवृद्धः, अधिकृतभावनायाश्च एवंस्वरूपत्वात् ।'मुक्ताभिनिवेशं खलु' इति सावधारणं क्रियाविशेषणम्, मुक्ताभिनिवेशमेव निरूपयितव्यं स्वबुद्ध्या, अभिनिवेशस्य तत्त्वप्रतिपत्तिं प्रति शत्रुभूतत्वात्, युक्तेरपि वैतथ्येन प्रतिभासनात्। उक्तं चात्र
"आग्रही बत ! निनीषति युक्तिं तत्र, यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र, तत्र मतिरेति निवेशम् ॥ साध्वसाध्विति विवेकविहीनो लोकपंक्तिकृत उक्तिविशेषः ।
बालिशो भवति नो खलु विद्वान्, सूक्त एव रमते मतिरस्य ॥" इत्यलं प्रसङ्गेन । इति चतुर्थगाथार्थः ॥८९ ॥
एवं प्रासङ्गिकमभिधाय 'एतयैष युक्तः' इत्येतद्गाथा[८५]सम्बद्धामेव प्रकृतयोजनागाथामाह
एएण पगारेणं जायइ सामाइयस्स सुद्धि त्ति ।
तत्तो सुक्कज्झाणं, कमेण तह केवलं चेव ॥१०॥ ___ एतेन प्रकारेण अनन्तरव्यावर्णितस्वरूपेण, किम् ? इत्याह-'जायते' . निष्पद्यते सामायिकस्य'-मोक्षहेतो: परिणामस्य 'शुद्धि:-'विशेषाभिव्यक्तिरिति । परिभावितमेवैतत् प्राक् । 'तत:' सामायिकशुद्धेः 'शुक्लध्यानं' पृथक्त्ववितर्क सविचारमित्यादिलक्षणं जायते' इति वर्तते । 'क्रमेण'-तथाश्रेणिपरिसमाप्तिलक्षणेन 'केवलं चैव'-केवलज्ञानं च जायते । इति गाथार्थः ॥१०॥.
सामायिकस्यैव प्राधान्येन मोक्षाङ्गतां ख्यापयन्नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org