________________
• ५८
योगशतक-सूत्र : ८७-८८-८९ . एवं पुण्णं पि दुहा मिम्मय-कणयकलसोवमं भणियं । अण्णेहि वि इह मग्गे नामविवजासभेएणं ॥८७॥ तह कायपाइणो ण पुण चित्तमहिकिच्च बोहिसत्त त्ति । होति तहभावणाओ आसययोगेण सुद्धाओ ॥४८॥ : एमाइ जहोइयभावणाविसेसाउ जुजए सव्वं । . मुक्काहिनिवेसं खलु निरूवियव्वं सबुद्धीए ॥८९॥ .
चतस्रोऽप्येकप्रघट्टकप्रतिबद्धाः ।आसां व्याख्या-'कायक्रियया' आगमबाधयाऽसद्भावतो भावशून्यया 'दोषा:'-रागादयः क्षपिताः सन्त:, किम् ? इत्याह-मण्डूकचूर्णतुल्या: इति, यथा माण्डूकचूर्णे चूर्णावस्थायां माण्डूकक्रियाक्षयः सनप्यक्षयकल्पः, प्रावृजादिनिमित्तयोगतः तदधिकभावात्, एवं कायक्रियया वचनबाधोपेतया तथाविधानुष्ठानसमभिव्यङ्गयो दोषक्षयोऽक्षयएव, जन्मान्तरादिनिमित्तयोगतस्तदधिकभावादिति । उक्तं च-"क्रियामात्रतः कर्मक्षयः मण्डूकचूर्णवत्, भावनातस्तु तद्भस्मवत्" [ ] इत्यादि । अपथ्यद्रव्ययोगवेदनाक्षयोपलक्षणमेतत् । एवं दोषाः ‘भावनया' वचनगर्भया चित्तवृत्त्या, 'क्षपिता' इति वर्तते, ज्ञेया:किंविशिष्टाः? इत्याह-'तत्सा(? च्छा)रसदृशाः'-मण्डूकभस्मतुल्याः, पुनरभावात् । भावना ह्यत्राग्रितुल्या वर्तत, इयं च वचननिमित्तैवेति । तद् "एतयैवैष युक्तः सम्यगशुभस्य क्षपको ज्ञेयः" [गा. ८५]-इति एतदनुपात्येव एतदिति परिभावनीयम् । इति प्रथमगाथार्थः ॥८६॥
एवं पुण्यमपि 'द्विधा'-द्विप्रकारम् । कथम् ? इत्याह-'मृण्मयकनककलशोपमं भणितम्'-एकं मृण्मयकलशोपमं क्रियामात्रजन्यमफलं सत् तत्फलदानस्वभावं वा, अन्यत् कनककलशोपमं विशिष्टभावनाजन्यं तथातथाफलान्तरसाधनेन प्रकृष्टफलजनकस्वभावमिति । एतद् भणितम् 'अन्यैरपि'-सौगतै:- "द्विविधं हि भिक्षवः ! पुण्यम्-मिथ्यादृष्टिजं सम्यग्दृष्टिजं च । अपरिशुद्धमाद्यम्, फलं प्रति मृद्घटसंस्थानीयम् । परिशुद्धमुत्तरम्, फलं प्रति सुवर्णघटसंस्थानीयम्" [ ]इति वचनात् । इह मार्गे' योगधर्ममार्गे 'नामविपर्यासभेदेन'-अभिधानभेदेन, एतदपि "इतरस्य बन्धकः तथा सुखेनैव मोक्षगामीति" [गा. ८५] एतदनुपाति तत्त्वतः । इति द्वितीयगाथार्थः ॥८७॥
तथा कायपातिनः, न पुनश्चित्तमधिकृत्य पातिनः 'बोधिसत्त्वाः'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org